________________
५५८ ]
सिद्धान्तकौमुदी। [तद्धितेषु मत्वर्थीयलस्य द्विगुणं क्षीरं पच्यते तैलेन । १८४६ तस्य पूरणे डट् । (५-२-४८) एकादशानां पूरण एकादशः । १८५० नान्तादसंख्यादेर्मट् । (५-२-४६) डटो मडागमः स्यात् । पञ्चानां पूरणः पञ्चमः । 'नान्तात्' किम्-विंशः । 'असंद्विंगुणत्वं न विवक्षितम् । किंतु राशिद्वित्वमेव विवक्षितमिति द्विगब्दस्य भागवृत्तित्वाभावान्न प्रत्ययः। तस्य पूरणे डट् । 'संख्यायाः' इत्यनुवर्तते। संख्येयार्थकसं. ख्यावाचिनः षष्ठयन्तात्प्रतिनिमित्तसंख्यायाः पूरणे वाच्ये डट्प्रत्ययः स्यादित्यर्थः । पूर्यते अनेनेति पूरणः अवयवः, स प्रत्ययार्थः । एकादश इति । एकादशत्वसंख्यायाः पूरकोऽवयव इत्यर्थः । यस्मिन् अनुपात्त एकादशत्वसंख्या न संपद्यति, यस्मिन्नुपात्ते तु सा पूर्यते, सोऽवयव एकदेश इति यावत् । प्रवृत्तिनिमित्तेति किम् ? पञ्चानां घटानां पूरणं जलादि । नान्तादसंख्यादेर्मट् । डटो मडागमः स्यादिति । शेषपूरणमिदम् । डटि टकार इत् । अकार उच्च रणार्थः । पञ्चम इति । पञ्चन्शब्दाद् डटि तस्य मडागमे सति नलोपः । यद्यपि मटः प्रत्ययत्वेऽपि प्रत्ययार्थादाधिक्यमानं प्रकृत्यर्थस्य विवक्षितम् , न तु बहुत्वम् । तेन द्विशब्दादपि भवत्येव । तस्य पूरणे । 'तस्य' इति षष्ठयन्तानुकरणम् । एकत्वं त्वविवक्षितम् , एकस्य पूरणासम्भवात् । पूर्यतेऽनेनेति पूरणः, ण्यन्तात्करणे ल्युट । एकादशानामिति । उद्भूतावयवभेदः समुच्चयः प्रकृत्यर्थः । अवयव इह प्रत्ययार्थः । यस्मात्संख्यावाचिनः प्रत्ययविधिस्तदीयप्रवृत्तिनिमित्तस्य एकादशत्वादेः पूरणे प्रत्ययः। यथा 'अतिशायने-' 'याप्ये-' इत्यादिषु प्रवृत्तिनिमित्तस्यैवातिशयादिकं गृह्यते, अन्तरकत्वात् , तथेहापि । तेन 'एकादशानां घटानां पूरणो जलादिः' इत्यत्र नातिप्रसङ्गशङ्कालेशोऽपीति भावः । ननु यदि प्रवृत्तिनिमित्तस्य पूरणे प्रत्ययः, तत्रि एकादशत्वस्य पूरण इति विग्रहो वक्तुं युक्त इति चेत् । अत्राहुः-'वैयाकरणपाशः' इत्यत्र यथा 'याप्यो वैयाकरणः' इति विग्रहः । न तु 'याप्यं वैयाकरणत्वम्' इति, तथेहापि बोध्यमिति । एवं च व्युत्क्रमेणाध्यायेषु गम्यमानेषु 'वृद्धिरादैच्' इत्यध्यायो यदा चरमं गण्यते तदा सोऽप्यष्टमो भवत्येव । नान्तादसंख्यादेः। डट इति । 'डट्' इति प्रथमान्तस्थानुवृत्तस्य 'नान्तात्-' इति पञ्चम्या षष्टी कल्प्यत इति भावः । यद्यपीह मटः प्रत्ययत्वेऽपि न क्षतिः, तथाप्युत्तरत्र तमट आगमत्वमेवाभ्युपगन्तव्यम् । अनुदात्तता यथा स्यात् । प्रत्ययत्वे ह्याद्युदात्तः स्यात् । तथा चैकरूप्येणैव संदर्भव्याख्यानमुचितम्। अन्येऽप्याहुः-मटः प्रत्ययत्वे अकारसहितो मकारो विधेयः। श्रागमत्वे तु मकारमात्रमिति लाघवमस्तीति। विंश इति । विंशतः पूरणः । 'तिविंशतेर्डिति' इति तिलोपः ।
१. 'प्रत्ययनिर्मित' इति क.।