________________
प्रकरणम् ३८] बालमनोरमा-तत्त्वबोधिनीसहिता। [५५६ ख्यादेः किम्-एकादशः । १८५१ षद्कतिकतिपयचतुरांथुक् । (५-२-५१) एषां थुगागमः स्याइटि । षण्णां पूरणः षष्ठः । कतियः । कतिपयशब्दस्यासंख्यात्वेऽप्यत एव ज्ञापकाइट् । कतिपययः । चतुर्थः । 'चतुरश्यतावाद्यक्षरस्य लोपश्च' (वा ३१५८) । तुरीयः, तुर्यः । १८५२ बहुपूगगणसङ्घस्य तिथुक् । (५-२-५२) 'डटि' इत्येव । पूगसङ्घयोरसंख्यात्वेऽप्यत एव डट् । बहुतिथ इत्यादि । १८५३ वतोरिथुक् । (५-२-५३) 'डटि' इत्येव । यावतिथः । १८५४ द्वेस्तीयः। (५-२-५४) डटोऽपवादः । द्वयोः पूरणो द्वितीयः । १८५५ त्रेः सम्प्रसारणं च । (५-२-५५) तृतीयः । न रूपभेदः । तथापि 'स्वरविशेषार्थ मडागमाश्रयणम्' इति भाष्ये स्पष्टम् । षद् कति । थुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्यादचः परः । षष्ठ इति। अपदान्तत्वात् षस्य न जश्त्वम्। चतुर्थ इति । अपदान्तत्वान्न रेफस्य विसर्गः । चतुर इति । वार्तिकमिदम् । चतुर् शब्दात् षष्ठयन्तात्पूरणे छयती स्तः। आद्यक्षरस्य लोपश्चेति । 'च' इति संघातस्य लोपश्चेत्यर्थः । बहुपूगगण । बहु, पूग, गण, संघ एषां डटि तिथुगागमः स्यादित्यर्थः । ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्यादचः परः । इत्यादीति । पूगतिथः, गणतिथः, संघतिथः। वतोरिथुक् । डटीत्येवेति । वतुबन्तस्य इथुगागमः स्याद् डटीत्यर्थः। यावतिथ इति । यावतां पूरण इति विग्रहः । 'बहुगण-' इति संख्यात्वात् 'तस्य पूरणे-' इति डटि प्रकृते. रिथुक् । द्वेस्तीयः। द्विशब्दात् षष्टयन्तात् पूरणे तीयप्रत्ययः स्यादित्यर्थः । वे षट्कति । इह षष्टीनिर्देशबलात् षडादीनामागमित्वं स्पष्टमिति तदानुकूल्येनानुवृत्तो डट् सप्तम्या विपरिणम्यते, तदाह डटीति । डट एव थुट् तु न कृतः, षष्ठे षकारस्य जश्त्वप्रसङ्गात् । चतुर्थे रेफस्य विसर्गप्रसशाच । न चैवं 'नान्तात्-' इति सूत्रेऽपि इति परे मुगेव विधीयतामिति वाच्यम् , पञ्चमः सप्तम इत्यादौ नलोपाभावापत्तेः । चतुरश्छयताविति । विशेषविहिताभ्यामपि छयन्यां डट्प्रत्ययो न बाध्यते, थुग्विधानसामर्थ्यात् । तेन चतुर्थ इति सिद्धम् । आद्यक्षरेति । अचसहितं व्यञ्जनमक्षरशब्देनोच्यते अच्सहितस्यादेर्व्यञ्जनस्येत्यर्थः । व्यञ्जनसहितस्यादेरच इति व्याख्याने तु द्विवचनन्यायेन तकारस्यापि लोपः स्यादिति हरदत्तः । श्रादेर्व्यञ्जनस्येति व्याख्याने प्रमाणं तु 'द्वितीयतृतीय-' इति सूत्रे 'तुर्याणि' इति निर्देशो बोध्यः। द्वेस्तीयः। डटोऽपवाद इति । डट आदेशस्तु न भवति, 'डिति' 'टिड्ढा-' इति कीपः प्रसक्त्या 'द्वितीयाश्रिता-' इति निर्देशानुपपत्तेः । अतएव निर्देशाद् द्विशब्दस्या
१ क्वचित्पुस्तकेषु 'वाद्यक्षरलोपश्च' इति पाठः।