________________
५६० ] सिद्धान्तकौमुदी। [तद्धितेषु मत्वर्थीय१८५६ विंशत्यादिभ्यस्तमडन्यतरस्याम् । (५-२-५६) एभ्यो डटस्तमडागमो वा स्यात् । विंशतितमः, विंशः । एकविंशतितमः, एकविंशः । १८५७ नित्यं शतादिमासार्धमाससंवत्सराच्च । (५..२-५७ ) शतस्य पूरणः शततमः । एकशततमः । मासादेरत एव डट् । मासतम । अर्धमासतमः। संप्रसारणं च । त्रेस्तीयः स्यात्प्रकृतेः संप्रसारणं चेत्यर्थः । तृतीय इति । त्रयाणां पूरण इति विग्रहः । तीयप्रत्यये सति रेफस्य संप्रसारणम ऋकारः। 'संप्रसारणाच' इति पूर्वरूपम् । 'हलः' इति दीर्घस्तु न भवति, 'ठूलोपे ' इत्यतः अण इत्यनुवृत्तेः । विंशत्यादिभ्यः। तमटि टकार इत्, मकारादकार उच्चारणार्थः । 'अत्र 'पक्तिविंशति-' इति सूत्रानुक्रान्ता एव विंशत्यादयो गृह्यन्ने, नतु लोकप्रसिद्धा एकविंशत्यादयोऽपि विप्रकर्षात्' इति कैयटः । एकविंशतितम इत्या तु तदन्तविधिना तमडियग्रे वक्ष्यते । नित्यं शतादिमासार्धमाससंवत्सराच । शतादिभ्यः मासाद् अर्धमासात् संवत्सराच्च परस्य डटो नित्यं तमडागमः स्यादित्यर्थः । ननु 'षष्ठ्यादेश्च-' इत्युत्तरसूत्रेण शततमः सिध्यतीत्यत आह-एकशततम इति । प्यादेशो न भवति । तृतीय इति । रेफस्य ऋकारः संप्रसारणम् । 'हलः' इह दीर्घस्तु न भवति, 'लोपे-' इति सूत्रादण इत्यनुवृत्तेः। 'स्तु च' इति नोक्तम् , प्रत्ययो मा विज्ञायीति । विशत्यादिभ्यः । इह प्रत्यासत्त्या 'पति-' इत्यादिसूत्रे निपातिता विंशत्यादयो गृह्यन्ते, न लोकप्रसिद्धा , विप्रकृष्टत्वादिति भाष्यमतम् । वृत्तिकृता तु विंशत्यादयो लौकिका एव संख्याशब्दा गृह्यन्ते, न 'पति-' आदिसूत्रनिर्दिष्टाः । तद्ग्रहणे ह्येकविंशतिप्रभृतिभ्यो न स्यात् , ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात् । एवं च सति 'षष्ठयादेश्वासंख्यादेः' इति पर्युदासो युज्यत एवेत्युक्तम् । एकविंशतितम इति । यद्यपि भाष्यमते तदन्तविधिदुर्लभस्तथापि 'षष्ठयादेश्व-' इति सूत्रे संख्यादिपर्युदासो ज्ञापयति 'इह प्रकरणे तदन्तानामपि ग्रहणम्' इति। एवं च सति एकानविंशतः पूरण एकानविंशतितम इत्यपि सिध्यति । 'लौकिकानां ग्रहणम्' इति वृत्तिमते तु नैतसिध्येत् । विंशतिसंख्यातः प्राग्भावित्व दस्याः संख्यायाः। एतच्च कैयटहरदत्तग्रन्थयोः स्पष्टम् । ननु 'अनारम्भो वा प्रातिपदिकविज्ञानाद्यथा सहस्रादिषु' इति वदता कात्यायनेन 'पति-' आदिसूत्रस्य प्रत्या व्यातत्वात् तत्सूत्रे निपातिता विंशत्यादयो गृह्यन्ते, इति भाष्यमतमयुक्तमिति चेत् । अत्राहुः-यद्यपि प्रत्याख्यातं तथापीहार्थमावश्यकं तत् । अतएव तत्र भाष्यकृता 'नासूया कर्तव्या यत्रानुगमः क्रियते' इत्युक्तम् । अतः कात्यायनोकप्रत्याख्यानं नादर्तव्यमिति । शततम इति । यद्यपीदं 'षष्ठयादेश्च-' इत्युत्तरसूत्रेणैव सिध्यति, तथापि संख्याद्यर्थ