________________
प्रकरणम् ३८] बालमनोरमा तत्त्वबोधिनीसहिता। [५५७ भागस्य मूल्ये वर्तमानात्प्रथमान्तात्संख्यावाचिनः षष्ठयर्थे मयट् स्यात् । यवानां द्वौ भागौ निमानमस्योदश्विद्भागस्य द्विमयमुदश्विद्यवानाम् । 'गुणस्य' इति किम्द्वौ बीहियवौ निमानमस्योदश्वितः । 'निमाने किम्-दौ गुणौ तीरस्य एकस्तै. अन्यथा प्रत्ययग्रहणपरिभाषया तदादिनियमः स्यात् । 'विंशतावप्यन्तग्रहणम्' इति कार्तिकाद् एकविंशं शतमित्यादि सिद्धम् । संख्याया गुणस्य । 'तदस्य' इत्यनुवर्तते । गुणो भागः अंशः । निमीयते क्रीयतेऽनेनेति निमानं मूल्यद्रव्यम् । 'मेङ् प्रणिदाने' करणे ल्युट । तदाह-भागस्य मूल्य इत्यादि । षष्ठयर्थ इति । अस्यत्यर्थे इत्यर्थः । यवानां द्वौ भागौ निमानमस्योदश्विद्भागस्येति विग्रहवाक्यम् । द्वाभ्यां यवप्रस्थाभ्याम् एक उदश्वित्प्रस्थः क्रीयते यत्र तत्रेदं वाक्यं प्रयुज्यते । द्विमयमुदश्विद्यवानामित्युदाहरणम् । यवानामिति संबन्धसामान्ये षष्ठी। यवप्रस्थद्वयेन क्रेतव्यमुदविदित्यर्थः । द्विशब्दस्य भागवृत्तनित्यसापेक्षत्वाद्यवानामित्येतत्सापेक्षत्वेऽपि प्रत्ययः। द्वौ वीहियवौ निमानमस्योदश्वित इति । द्वित्वसंख्याविशिष्टौ व्रीहियवराशी यौ तौ अस्य उदश्वितो निमानमित्यर्थः । अत्र उदश्विद्यावत् , तदपेक्षया व्रीहियवराश्योएकचत्वारिंशमित्यादि सिद्धम् । नचैवं गोत्रिंशदधिका अस्मिन् गोशते इत्यादावतिप्रसरः शङ्कयः, 'संख्याया अवयवे तयप्' इत्यतः संख्याग्रहणानुवृत्तेः । अन्तग्रहणमिह विंशतिशब्दानन्तरं कर्तव्यम्-'षड्विंशत्यन्ताच' इति । तेन एकविंशं शतमित्यादि सिध्यति। अन्यथा 'ग्रहणवता-' इति तदन्तविधिप्रतिषेधादिह न स्यात् । संख्याया गुणस्य । गुणो भागः । निमीयते क्रीयतेऽनेनेति निमानं मूल्यम् , 'मेङ् प्रणिदाने' इत्यस्मान्निपूर्वात्करणे ल्युट् । तदाह-भागस्य मूल्य इति । षष्ठयर्थ इति । यद्यपि 'तदस्मिन्नधिकम्-' इत्यतः 'तद्' इत्यनुवृत्तौ प्रथमान्तादित्ययमेवार्थो लभ्यते, तथापि मण्डूकप्लुत्या 'तदस्य संजातम्' इत्यतः 'तदस्य' इत्यनुवर्तनात् 'षष्ठयर्थे' इत्येतदपि लभ्यत इति भावः । द्विमयमिति । द्विशब्दस्य सम्बन्धिशब्दत्वेन नित्यसापेक्षत्वाद् ‘यवानाम्' इति पदे सत्यपि तद्धितोत्पत्तिरिहाविरुद्धति ज्ञेयम् । नन्वेवमपि प्रत्ययान्तस्योदश्विच्छब्देन सामानाधिकरण्यं दुर्लभम् । यावतोदश्विद्भागे प्रत्ययो विहितः, नोदश्विति । अत्राहुः-भागेऽपि विधीयमानः प्रत्ययः अभिधानखाभाव्याद् भागवन्तमाचष्टे । तेन सामानाधिकरण्यं भवतीति । 'गुणनिमाने' इति वक्तव्ये व्यस्तोच्चारणाद् ‘एकत्वं गुणस्य' इत्यत्र विवक्षितम् । तेनेह न भवतियवानां द्वौ भागौ निमानमेषामुदश्वितत्रयाणां भागानामिति । 'भूयसश्च वाचिकायाः संख्यायाः प्रत्यय इष्यते' । इह न भवति । एको भागो निमानमस्येति । भूयस इति च
१ "विक्रीयते' इति क. २ 'विक्रीयते' इति क. ३. 'विक्रेतव्यम्' इति क.।