________________
५५६ ]
सिद्धान्तकौमुदी । [तद्धितेषु मत्वर्थीय
अथ तद्धितेषु मत्वर्थीयप्रकरणम् । ३८ ।
१८४६ तदस्मिन्नधिकमिति दशान्ताड्डुः । ( ५-२-४५ ) एकादश अधिका अस्मिनेकादशम् । 'शतसहस्रयो रेवेष्यते' ( वा ३१४१ ) । नेह - एकादश अधिक अस्यां विंशतौ । 'प्रकृतिप्रत्ययार्थयोः समानजातीयस्वमेवेष्यते' (वा ३१४० ) । नेह – एकादश माषा अधिका अस्मिन्सुवर्णशते । १८४७ शदन्तविंशतेश्च । ( ५-२-४६ ) ङः स्यावुक्तेऽर्थे । त्रिंशदधिका अस्मिन् त्रिंशं शतम् । विंशम् । १८४८ संख्याया गुणस्य निमाने मयट् । ( ५-२-४७.)
स चोदात्त इति । श्रायुदात्त इत्यर्थ: । 'अन्तोदात्तत्वस्य चित्वेनैन सिद्ध:' इति भाष्ये स्पष्टम् । 'अत्र अयचप्रत्यय एव विधीयते, न तु तयप आदेश:' इति स्थानिवत्सूत्रभाष्ये स्पष्टम् । तयप आदेश इति मूलं तु वार्तिकानुरोधेन ।
इति तद्धितेषु पाञ्चमिकाः ।
अथ मत्वर्थीयाः - तदस्मिन्नधिकम् । तदधिकमस्मिन् इति विग्रहे प्रथमान्ताद् दशन्शब्दान्तात् समासाद् श्रस्मिन्नित्यर्थे उप्रत्ययः स्यादित्यर्थः । प्रत्ययविधौ तदन्तविधिप्रतिषेधादन्तग्रहणम् । अत एव निर्देशात् पञ्चम्यर्थे सप्तमीत्याहुः । 'औपश्लेषिकेऽधिकरणे सप्तमी' इति भाष्यम् । 'सामीपिकमधिकरणम्' इति कैयटः । एकादश माषा अधिका अस्मिन्निति । श्रस्मादित्यर्थः । अस्मिन् उपश्लिष्टा इति वा । न च व्यपदेशिवत्त्वेन केवलदशन् शब्दादपि स्यादिति शङ्कयम्, 'व्यपदेशि वद्भावोऽप्रातिपदिकेन' इत्युक्तेः । शदन्तविंशतेश्च । शेषपूरणेन सूत्रं व्याचष्टे । डः स्यादुक्तेऽर्थे इति । दशान्तत्वाभावात्पूर्वेणाप्राप्तिः । त्रिंशं शतमिति डे सति ‘टे:' इति टिलोपः । विंशमिति । विंशतिः अस्मिन्नधिका इति विग्रहः । 'ति विंशते:-' इति तिशब्दस्य लोपः । श्रन्तग्रहणादेकत्रिंशं शतमिति सिद्धम् । सामर्थ्यादादेरेवायम् । प्रयुज्यते च तथा 'उभयं शृणवच न' इति । तदेतत्स कलमभिप्रेत्याह - स चेति ।
1
तदस्मिन् । पुनस्तद्ग्रहणम् 'अस्य' इति षष्ठयन्त संबद्धतद्ग्रहणनिरासार्थम् । प्रत्ययविधौ तदन्तविध्यभावादाह - दशान्तादिति । श्रन्तग्रहणं किम्, दश अधिका अस्मिन् शते । न चेह व्यपदेशिवद्भावेन दशान्तत्वमस्तीति वाच्यम्, 'व्यपदेशिवद्भावोऽप्रातिपदिकेन' इत्यभ्युपगमात् । शदन्त । प्रत्ययग्रहणपरिभाषया तदन्तविधौ सति 'यस्मात्प्रत्ययविधिस्तदादेस्तदन्तस्य' इति परिभाषया तदादिनियमः स्यात् । तं वारयितुमन्तग्रहणम् । तेन एकत्रिंशं शतम्,