________________
प्रकरणम् ३७ ]
बालमनोरमा-तत्वबोधिनीसहिता । [ ५५५
संख्या एषां दशानाम् । १८४३ संख्याया अवयवे तयप् । ( ५-२-४२ ) पञ्च अवयवा अस्य पञ्चतयं दारु । १८४४ द्वित्रिभ्यां तयस्यायज्वा । ( ५-२-४३) द्वयम् द्वितयम् । श्रयम् त्रितयम् । १८४५ उभादुदात्तो नित्यम् । ( ५-२-४४) उभशन्दात्तयप आदेशोऽयच् स्यात्, स चोदात्तः । उभयम् । इति तद्धितेषु पाञ्चमिकाः ।
"
त्वस्य अनयोरित्यनेन द्वित्वस्य च ज्ञातत्वात् ज्ञाते च प्रश्नासम्भवात् । का संख्या एषामिति तु प्रश्नः संभवति, तत्र एषामित्यनेन बहुत्वस्य ज्ञातत्वेऽपि तद्व्याप्यत्रित्वचतुष्ट्वादिसंख्यानामज्ञातत्वात् । उक्तं च भाष्ये - 'न येकयोः प्रश्नोऽस्ति' इति । ततश्च नित्यबहुवचनान्तोऽयं कतिशब्दः । ' इति च' इति षट्संज्ञकत्वात् 'षड्भ्यो लुक्' इति जश्शसोर्लुक् । कियन्त इति । कियानितिवत्प्रक्रिया । बहुवचनं विशेषः । संख्यापरिमाणे इत्युक्तेः किमः क्षेपार्थकत्वे डतिर्न भवति । का संख्या एषां दशानामिति । दशावरा परिषदित्यत्र ब्राह्मणब्रुवाणां मेलने इदं वाक्यं प्रवृत्तम् । संख्येयद्वारा संख्यायाः कुत्सात्र गम्यते, 'अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् । सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥' इति स्मरणात् । संख्यायाः । तदस्येत्यनुवर्तते । द्वित्र्यादिसंख्याका अवयवा अस्यावयविन इति विग्रहे अव ययीभूतसंख्यावाचिनः प्रथमान्ताद् अस्यावयविन इत्यर्थे तयबित्यर्थः । पञ्चतयमिति । पञ्चावयवकः समुदाय इत्यर्थः । द्वित्रिभ्याम् । द्वित्रिभ्यां परस्य तयपः अयज्वा स्यादित्यर्थः । द्वयमिति । द्विशब्दात्तयपः प्रयचि 'यस्येति च' इति इकारलोपः । द्व्यवयवकसमुदाय इत्यर्थः । एवं त्रयम् । उभादुदात्तो नित्यम् । कुत्सा बोध्या । संख्याया । श्रवयवे वर्तमाना या संख्या तद्वाचिनः प्रथमान्तात् षष्ठ्यर्थे तयप् स्यात् । यं प्रत्यवयवः सोऽवयवी प्रत्ययार्थः । 'अस्य' इत्यधिकारात् । यथा द्वयसजादिषु प्रमाणे प्रकृत्यर्थे प्रमेयं प्रत्ययार्थस्तद्वत् । त्रयमिति । ननु 'त्रयोs - वयवाः तन्तवो यस्य त्रयं सूत्रम्' इति प्रयोगे संभवत्यपि 'मुनित्रयम्' इति प्रयोगो न संगच्छते, अन्यपदार्थस्यावयविनोऽभावादिति चेत् । अत्राहुः - श्रवयवी त्वत्र समुदाय एव । स चातिरिक्को वाऽनतिरिक्तो वेति विचारान्तरम् । एवं च समुदायस्यातिरिक्तत्वपक्षेऽपि समुदायघटकत्वेन मुनीनां प्रत्यभिज्ञानान्मुनित्रयनमस्कारस्य विघ्नविघातकत्वमस्त्येवेति । उभादुदात्तो नित्यम् । इह 'चितः' इत्यनेनैवान्तोदात्तत्वं सिद्धम् । सर्वोदात्तत्वं तु 'अनुदात्तं पदमेकवर्जम्' इति वचनाद्वाधितम् । न च हे उभ संबुद्ध्यन्ते आमन्त्रितायुदात्तत्वं बाधितुं वचनमिति शङ्खयम्, पुरस्तादपवादन्यायेन चित्स्वरस्यैव बाध्यता, न त्वामन्त्रिताद्युदात्तत्वस्येति सुवचत्वात् । तस्मादुदात्तवचन
"