________________
५५४ ] सिद्धान्तकौमुदी। [तद्धितेषु पाञ्चमिक(५-२-४०) आभ्यां वतुः स्याद्वस्य च घः। कियान् । इयान् । १८४२ किमः संख्यापरिमाणे डति च। (५-२-४१) चाद्वतुप । तस्य च वस्य घः स्यात् । का संख्या एषां ते कति कियन्तः, पे तु न, का सर्वनाम्नः' इत्यात्त्वम, सुः, 'उगिदचाम्-' इति नुम्, 'श्र वसन्तस्य-' इति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ । एवं तावान्, एतावान् । किमिदंभ्यां वो घः। 'तदस्य' इति 'परिमाणे वतुप्' इति चानुवर्तते । तदाह-प्राभ्यां वतुप स्यादिति । श्राभ्यां प्रथमान्ताभ्याम् अस्य तत्परिमाणमित्यर्थे वर प् स्यादित्यर्थः । वस्य च घ इति । वकारस्य घकार इत्यर्थः । कियानिति । विं परिमाणमस्येति विग्रहः । किंशब्दाद् वतुप , उपावितो, कारस्य घकारः, इयादेशः, किम् इयत् इति स्थिते 'इदकिमोरीश्की' इति किमः कोभावे 'यस्येति च' इति ईकारलोपे किय. तूशब्दात्सौ 'उगिदचाम्-' इति नुमि 'अत्वसन्तस्य-' इति दीर्घे, हङयादिसंयोगान्तलोपाविति भावः । इयानिति । इदंशब्दाद् वतुपि वकारस्य घकारे इयादेशे इदम् इयत् इति स्थिते 'इदकिमोरीश्की' इति शित्त्वादिदम ईकारे सर्वादेशे 'यस्येति च' इति ईकारस्य लोपे इयत् इति प्रत्ययमानं शिष्यते। ततः सौ नुमादि पूर्ववत् । किमः संख्या। 'तदस्य' इत्यनुवर्तते । संख्यायाः परिमाणं परिच्छेदः । किंशब्दः प्रश्ने वर्तते । का अस्य संख्येत्येवं संख्यापरिच्छेदविषयकप्रश्ने विद्यमानात् किंशब्दात् प्रथमान्ताद अस्येत्यर्थे डतिप्रत्ययश्च स्यादित्यर्थः । का संख्या एषां ते कतीति । का संख्या अस्येति, का संख्या अनयोरिति च प्रश्नो न संभवति, अस्येत्यनेन एकदिभ्यः प्रत्ययमालाप्रसङ्गात् । किमिदंभ्याम् । वतुप्स्यादिति । वकारस्य घविधिसामद्वितुपमनुवर्त्य सोऽप्यत्र विधीयत इति भावः । 'अदेः पदस्य' इत्येव सिद्धे 'वः' इति वचनमादेशप्रतिपत्त्यर्थम् । इतरथा घः प्रत्यगान्तरं विज्ञायेत । कियानिति । 'इदंकिमोरीश्की' । 'यस्येति च' इति लोपः । इयानिति । ईशादेशस्य 'यस्य' इति लोपे प्रत्ययमात्रमवशिष्यते । पठन्ति च-'उदितवति परस्मिन् प्रत्यये शास्त्रयोनी गतवति विलयं च प्राकृतेऽपि प्रपञ्चे । सपदि पदमुदीतं केवलः प्रत्ययो यत् तदियदिति मिमीते को हृदा पण्डितोऽपि ।' वैयाकरणानामौपनिषदानां च प्रक्रियामाश्रित्य प्रवृत्तो द्यर्थोऽयं श्लोकः । किमः संख्या। 'तदस्य-' इत्यनुवर्तत एव । संख्यायाः परिमाणं परिच्छेदः, तस्मिन् कर्तव्ये यः प्रश्नस्तस्मिन्वर्तमानात्किमः प्रथमासमर्थादस्येति षष्ठयर्थे डति स्यात् । संख्यापरिमाणे किम् , क्षेपे माभूत् । का संख्येयमेषां दशानाम् । 'अवतानाममन्त्राणां जातिमात्रोपजीविनाम्। सहस्रशः समेतानां परिषत्त्वं न विद्यते॥' इत्येवं संख्येयद्वारेणात्र संख्यायाः