________________
प्रकरणम् ३७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५५३ । नम् , हस्तिद्वयसम् । १८४० यत्तदेतेभ्यः परिमाणे वतुप् । (५-२-३६) यत्परिमाणमस्य यावान् । तावान् । एतावान् । १८४१ किमिदम्भ्यां वो घः। च । उक्तविषय इति शेषः । चाद् द्वयसजादयस्त्रयः । यत्तदेतेभ्यः । तदस्येत्यनुवतते । अस्य तत्परिमाणमित्यर्थे परिमाणवाचिभ्यः प्रथमान्तेभ्यः किम्, यद्, तद्, एतद् एभ्यो वतुप् स्यादित्यर्थः । यावानिति । यच्छब्दावतुप् , उपावितौ। 'श्रा यत्तदेतेभ्यः। यावानित्यादि । 'श्रा सर्वनाम्नः' इत्यात्वे 'उगिदचाम्-' इति नुम् 'अत्वसन्तस्य च-' इति दीर्घः । हल्ल्यादिलोपसंयोगान्तलोपी । 'प्रमाणे' इत्यनुवर्तमाने परिमाणग्रहणं प्रमाणपरिमाणयोमदात्कृतम् । तथा च वार्तिकम् -'डावतावर्थवैशेष्यानिर्देशः पृथगुच्यते। मात्राद्यप्रतिघाताय भावः सिद्धश्च डावतोः' इति । अस्यार्थः-पह शास्त्रे वतुपं विधाय तस्मिन् परे प्रात्वं विहितम् । पूर्वाचार्यास्तु डावतुं विदधिरे, तद्रीत्या निर्देशोऽयं डावताविति । विशेष्यत इति विशेषस्तस्य भावो वैशेष्यं तस्मात् , अर्थभेदादित्यर्थः । अर्थभेदस्तु 'परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्' इति प्रागेवोक्त इति भावः । नन्वनयोरर्थभेद सति यावानध्वा यावती रज्जुरित्यादि न सिध्येत्, अत्र त्यायाममात्रं गम्यते। यद्युपमानाद्भविष्यतीति ब्रूषे, तर्हि प्रमाणग्रहणमेवानुवर्त्यताम् , यावानध्वेत्यादिप्रयोगाश्च मुख्याः सन्तु । ये तु परिमाणे प्रयोगाः 'यावान् धान्यराशिः' इत्यादयः, त एवोपमानाद्भवन्तु तत्राह-'मात्रादीति' । 'यत्तदेतेभ्यः-' इति विशेषविहितो हि वतुप सामान्यविहितान् मात्रजादीन् बाधेत, तेन तन्मात्रमित्यादि न स्यात् । परिमाणग्रहणे सति तु भिन्नोपाधिकत्वाद्वतुपः प्रमाणे विहितमात्रजादिभिः सह बाध्यबाधकभावों नेति भावः। नन्वेवमपि बाधः स्यादेव । 'प्रमाणे द्वयसच्-' इत्यत्र प्रस्थमात्रमित्यादि. सिद्धये प्रमाणग्रहणस्य परिच्छेदकमात्रपरतया व्याख्यातत्वेन वतुपो यत्तदेतेभ्यो विहितत्वेन विशेषविहितत्वानपायात् । तस्माद् 'यत्तदेतेभ्यो वतुप् च' इत्येव सूत्र्यताम् , मास्तु परिमाणग्रहणम् , अस्तु च प्रमाणे इत्यर्थाधिकारः, तेन यावती रज्जुर्यावान् धान्यराशिरित्यादिप्रयोगाः सर्वेऽप्युपचारं विनव निर्वहन्तीत्यपरमनुकूलमत आह'भावः सिद्धश्चेति' । डावतोरिति पञ्चम्यन्तम् । अर्थनेदे सति वत्वन्तान्मात्रजादीनामुत्पत्तिः सिध्यति । तत्परिमाणमस्य तावद्धान्यं राशीकृतम् , सावत्प्रमाणमस्य कुड्यादेः, तावन्मात्रम् । यादृप्राशीकृतस्य धान्यादेदैर्घ्य तादृशं कुड्यादेरपीत्यर्थः । एकविषयत्वे तु वतुपैव विशिष्टस्य प्रमेयस्योकत्वाद्वतुबन्तान्मात्रजादयो न स्युः । यस्य हि तावप्रमाणं तस्य तदपि प्रमाणम् । जानुप्रमाणकं जलादि यस्य प्रमाणं तदपि जानुप्रमाणकमिति वक्तुं शक्यत्वात्। एवं च तावच्छब्द एव प्रयुज्येत, न तु तावन्मात्रमित्यादि। अन्यथा तत्प्रमाणमस्य तन्मात्रम् । तन्मात्रं प्रमाणमस्य तन्मात्रमात्रमित्येवं मात्रजा