________________
५५२ ] . सिदान्तकौमुदी। तद्धितषु पाश्चमिक विरामम् । 'प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये मात्रज्वकन्या' (वा३५३) शममात्रम् । प्रस्थमात्रम् । पश्चमात्रम् । 'वस्वन्तास्वार्थे द्वयसज्मात्रची बहुलम्' (वा ३१३४ )। तावदेव तावद्वयसम् । तावन्मात्रम् । २८३६ पुरुषहस्तिभ्यामएच । (५-२-३८) पुरुषः प्रमाणमस्य पौरुषम्, पुरुषद्वयसम् । हास्तिमस्तु प्रमाणं स्यात्' इत्येव गृह्यते । एवं च ऊरुद्वयसमित्यादौ न लुक् । द्विगोनित्यमिति । प्रमाणान्ताद् द्विगोः परस्य द्वयसजादेनित्यं लुक् स्यादित्यर्थः । प्रमाणासस्य द्विगोः प्रमाणावृक्त्विात् सामर्थ्यादिह तदन्तविधिः। पूर्ववार्तिकेन तु नात्र प्राप्तिरस्ति, द्विगोः प्रमाणत्वाभावात् । द्विशममिति । तद्धितार्थ द्विगुः । ततो मात्रचः अनेन लुक् । 'विकल्पस्याप्रकृतत्वादेव सिद्धे नित्यग्रहणं संशये वक्ष्यमाणस्य मात्रचो लुगर्थम् । अन्यथा शममात्रमित्यत्रेव द्विशमशब्दादपि स मात्रच् न लुप्यत' इति भाष्ये स्पष्टम् । प्रमाणेति । प्रमाणवाचिनः परिमाणवाचिनः संख्यावाचिनश्च संशये मात्रज्वक्तव्य इत्यर्थः । अत्र प्रमाणमायाम एव गृह्यते, 'आयामस्तु प्रमाणं स्यात्' इति वचनात् । अत एव परिमाणग्रहणमर्थवत् । शममात्रमित्यादि । शमः स्यान वेत्यादिविग्रहः । वत्वन्तादिति । वार्तिकमिदम् । पुरुषहस्तिभ्यामण् विग्रहः । एषु मात्रचो लुक, इतरयोरसंभवात् , शमादीनामार्वमानत्वात् । द्विगोनित्यमिति । द्विगोरप्रमाणत्वात्तदन्तविध्यभावाच पूर्वेणाप्रा लुग्विधीयते । ननु विकल्पस्याप्रकृतत्वान्नित्यग्रहणमिह निरर्थकमिति चेत् । अत्राः -अनुपदं संशये वक्ष्यमाणो मात्रच् शममात्रमित्यादौ यथा न लुप्यते, 'प्रमारी लः' इत्यस्य 'प्रमाणे द्वयसच्-' इति यः पूर्वविधिस्तद्विषयत्वात् , एवं द्विगोरपि न लुप्येत । इभ्यते च लक। द्वौ शमौ स्याता न वा द्विशम इति । तथा चाधिकसंग्रहार्थ नित्यग्रहणमिति । अत्र केचित्-'द्विगोलः' इत्युक्तेऽपि पुनर्लग्रहणं नित्यार्थमधिकसंग्रहार्थमिति व्याख्यातुं शक्यत इति वैचित्र्यार्थ नित्यग्रहणमित्याहुः-शममात्रमित्यादि । शमः स्यान्न वेस्यादिविग्रहः । पुरुषहस्तिभ्यामएच । 'इनरायनपत्ये' इति प्रकृतिभावः । हस्ती प्रमाणमस्य हास्तिनम् । अत्र काशिकायामुक्तं 'द्विग्गोनित्यं लुक् , द्विपुरुषमुदकम्' इत्यादि । व्याख्यातं च हरदत्तेन-यद्यपि 'प्रमाणे लो द्विगोर्नित्यम्' इत्यस्य नायमनुवादः, पुरुषहस्तिनोः शमादिवत्प्रमाणत्वेनाप्रसिद्धत्वात् , 'प्रत एव हि पुरुषद्वयसमित्यादौ 'प्रमाणे लः' इति लुङ् न भवति। तथाप्यपूर्वोऽत्र लुग्विधीयत इति । एतच्चासंगतम् , 'द्विगोनित्यं लुक्' इत्यपूर्ववचनस्य मुनित्रयाक्तत्वात् । वस्तुतस्तु विधीयत इत्यस्यानुमीयत इत्यर्थः । अयं भावः-'द्विगोः' 'तद्धितलुकि' इत्यनुवर्तमाने 'पुरुषात्प्रमाणेऽन्यतरस्याम्' इति डीब्विकल्प्यते तदेव लुकमनुमापयतीति ।