________________
प्रकरणम् ३७ ] बालमनोरमा तस्वबोधिनीसहिता। . [५५१ घटते कर्मठः पुरुषः । १८३७ तदस्य सञ्जातं तारकादिभ्य इतच् । (५-२-३६) तारकाः साता अस्य तारकितं नमः । प्राकृतिगणोऽयम् । १८३८ प्रमाणे द्वयसज्दनमात्रचः। (५-२-३७) तदस्य इत्यनुवर्तते । उरू प्रमाणमस्य ऊरुद्वयसम् , उरुदनम् , ऊरुमात्रम् । 'प्रमाणे लः' (वा ३१२८) शमः । दिष्टिः । वितस्तिः । 'द्विगोनित्यम्' (वा ३१२६) । द्वौ शमौ प्रमाणमस्य यत्वभ्रमं वारयति। कर्मणि घटत इति । व्याप्रियत इत्यर्थः। तथा चात्र घटशब्दो यौगिको घटमाने वर्तत इति भावः । कर्मठ इति । अठचि 'नस्तद्धिते' इति टिलोपः । अठचि ठस्य अङ्गात्परत्वाभावादिकादेशाभवि इति भावः । तदस्य । प्रथमान्तेभ्यस्तारकादिभ्यः अस्य तत्संजातमित्यर्थे इतच् स्यादित्यर्थः । तारकितं नभ इति । संजातनक्षत्रमित्यर्थः प्राकृतिगणोऽयमिति । तेन पुष्पितो वृक्षः फलित इत्यादिसंग्रहः । प्रमाणे | अनुवर्तत इति। ततश्च अस्य प्रमेयस्य तत्प्र. माणमित्यर्थे प्रमाणे विद्यमानात्प्रथमान्ताद् द्वयसच, दनच, मात्रच् एते प्रत्ययाः स्युः । 'प्रमाणवानिदमर्थोऽत्र प्रत्ययार्थः' इति भाष्ये स्पष्टम् । तत्र 'प्रथमश्च द्वितीयश्च ऊर्ध्व. माने मतौ मम' इति भाष्ये उक्तम् । प्रमाणमिह परिच्छेदकमात्रम्, तत्र मात्रप्रस्थमात्रमूरुमात्रमित्यादि इति कैयटः । वस्तुतस्तु 'यत्तदेतेभ्यः' इति सूत्रभाष्यस्वर• सादायामपरिच्छेदकमेवात्र प्रमाणम् इति शब्देन्दुशेखरे विस्तरः। प्रमाणे ल इति । लुको ल इति पूर्वाचार्यशास्त्रसिद्धा संज्ञा । प्रमाणे वर्तमानाद्विहितस्य द्वयसजादे ग्वक्तव्य इत्यर्थः । शमो दिष्टिर्वितस्तिरिति । शमः प्रमाणमस्येत्यादिविग्रहः । शमादयः अनूप्रमानविशेषाः । तेभ्यो मात्रचो लुक, इतरयोरसंभवात् । अत्र 'अायानिषेधः' इत्युक्तत्वात् । कर्मणि घटो। सप्तम्यन्ताकर्मनशब्दाद् ‘घटते' इत्यर्थेऽठच् स्यात् । कर्मठ इति । 'ठस्येकः' इतीह न भवति । अठचि ठस्याप्रत्ययत्वेनाङ्गसंज्ञानिमित्तत्वाभावात् । तारकितमिति । एवं पुष्पितं फलितं पुलकितं रोमाञ्चितमित्यायुदाहार्यम् । प्रमाणे द्वयसज् । प्रमाणे विद्यमानात्प्रथमान्ताद् 'अस्य' इति निर्दिष्टे प्रमेयेऽथें त्रयः प्रत्ययाः स्युः । प्रमाणमिह परिच्छेदकमात्रम् । तत्र मात्रच् । द्वयसच्दनचौ तूर्ध्वमान एव भवतः । 'प्रथमश्च द्वितीयश्च ऊर्ध्वमाने मतौ मम' इति भाष्यात् । ऊविस्थितेन येन मीयते तदूर्ध्वमानम् ऊर्वादि । तेन तिर्यमानादौ 'दण्डद्वयसं क्षेत्रम्' इत्यादि न प्रयुज्यते, यथोत्तरं मुनीनां प्रामाण्यात् । अतएव 'द्विकाण्डा क्षेत्रभक्तिः' इत्यत्र 'द्वयसचो लुक्' इति प्राचोक्तं नादर्तव्यमित्यवोचाम । प्रमाणे ल इति । लुक एषा पूर्वाचार्यसंज्ञा । प्रमाणत्वेन ये प्रसिद्धास्ततः परस्यैवायं लुगित्युदाहरति-शमः । दिष्टिः । वितस्तिरिति । शमः प्रमाणमस्येत्यादि