________________
५५० ] सिद्धान्तकौमुदी। [तद्धितेषु पाञ्चमिकनम् । चिपिटम् । चिक्कम् । 'क्लिनस्य चिल पिल लश्चास्य चक्षुषी' (वा ३१२२) क्लिने चक्षुषी अस्य चिल्लः । पिल्लः । 'चुल च' (वा ३१२३)। चुल्लः । १८३५ उपाधिभ्यां त्यकन्नासनारूढयोः । (५-२--३४) 'संज्ञायाम्' इत्यनुवर्तते । पर्वतस्यासन्नं स्थलमुपत्यका । प्रारूढं स्थलमधित्यका । १८३६ कर्मणि घटोऽठच् । (५-२-३५) घटत इति घटः । पचाद्यच् । कर्मणि कप्रत्ययेति । उक्तनेः कप्रत्ययः प्रकृतेः चिकादेशश्चेत्यर्थः । अयमपि ककारान्त एवादेशः । चिकिनमिति । इनचि प्रत्यये कृते नेः चिकादेशे रूपम् । चिपिटमिति । पिटचि कृते नेः चि इत्यादेशे रूपम् । चिकमिति । कप्रत्यये नेः चिकादेशे रूपम् । क्लिन्नस्य चिपिल्लश्चास्य चक्षुषी इति । वार्तिकमिदम् । चिल्पिल इति समाहारद्वन्द्वात्प्रथमैकवचनम् । क्लिने अस्य चक्षुषी इति विग्रहे क्लिन्नशब्दाद् अस्य चक्षुषी इत्यर्थे लप्रत्ययः, प्रकृतेः चिल् प्ल् िएतावादेशौ स्त इत्यर्थः । क्लिन्ने इति । नेत्रामयप्रयुक्तजलनिष्यन्दवती इत्यर्थः । चिल्लः । पिल्ल इति । क्लिन्नचक्षुष्क इत्यर्थः । चुल चेति । उक्तविषये जिन्नस्य चुल आदेशश्च लप्रत्ययसंनियोगेन वक्तव्य इत्यर्थः । उपाधिभ्याम् । उप, अधि श्राभ्यां यथासंख्यमासन्नारूढयोर्वर्तमानाभ्यां स्वार्थे त्यकन्प्रत्ययः स्य दित्यर्थः । आसन्न समीपम् । श्रारूढम् उच्चम् । अनुवर्तत इति । 'नते नासिकायाः-' इत्यस्मादिति भावः । कस्य समीपं कस्योच्चम् इस्याकाङ्क्षायां संज्ञाधिकारात, पर्वतस्येति लभ्यत इत्यभिप्रेत्याह पर्वतस्येति। उपत्यका। अधित्यकेति । स्त्रीत्वं लोकात् । अत्र 'प्रत्ययस्थात्-' इति इत्त्वं तु न, 'त्यकनश्च' इत्युक्तेः । कर्मणि घटोऽठच् । सप्तम्यन्तात् कर्मशब्दाद् घट इत्यर्थे अठच्स्यादित्यर्थः। घटशब्दस्य कलशपर्यासंख्यमिमावादेशौ च स्त इत्यर्थः। चिकिनमिति। इनच्प्रत्ययसंनियोगेन चिकादेशः। चिपिटमिति । पिटच्प्रत्ययसंनियोगेन चि इत्यादेशः । क्लिन्नस्येति । चिल् पिल इत्येतावादेशौ भवतो लश्च प्रत्ययः 'अस्य चक्षुषी' इत्येतस्मिन्नर्थे । चुल चेति । चाल्लप्रत्ययः । चुल्ल इति । क्लिन्ने अस्य चक्षुषी इति पूर्वोक्त एव विग्रहः । कथं तर्हि 'स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः क्लिन्नेऽक्षिण चाप्यमी' इत्यमर इति चेत् । अत्राहुःपुरुषे व्युत्पादितानां तदवयवे लक्षणा बोध्या। अन्ये त्वाहुः-अस्य चक्षुषी इत्यत्र 'अस्य' इति न वक्तव्यम् । क्लिन्ने चक्षुषी चिल्ले पिल्ले । पुरुषे तु मत्वर्थेऽच् अर्श
आदिषु 'खानाद्धीनात्' इति सूत्रितत्वादिति । उपाधिभ्याम् । संज्ञाधिकारादिह नियतविषयमासन्नारूढं गृह्यत इत्याशयेनाह-पवर्तस्येति । आसन्नं समीपम् । आरूढमुच्चस्थानम् । उपत्यकेति । 'प्रत्ययस्थात्-' इतीत्वं तु न भवति, 'त्यकनश्च