________________
प्रकरणम् ३७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५४६ रश्च । (५-२-३०) चात्कटच् । अवाचीनोऽवकुटारः, अवकटः । १८३२ नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः (५-२-३१) प्रवाद् इत्येव । नतं नमनम् । नासिकाया नतं अवटीटम् , भवनाटम् , अवभ्रटम् । तद्योगाबासिका अवटीटा। पुरुषोऽप्यवटीटः। १८३३ नेबिडज्विरीसचौ। (५-२-३२) निविडम् , निबिरीसम् । १८३४ इनपिटश्चिकचि च । (५-२-३३) नेः इत्येव । नासिकाया नतेऽभिधेये इनपिटची प्रत्ययो प्रकृते. श्चिक चि इत्यादेशौ च । 'कप्रत्ययचिकादेशौ च वक्रव्यो' (वा ३१२१)। चिकियुगम् । अश्वषङ्गवम् अवात्कुटारच्च । क्रियाविशिष्टसाधनवाचकादवात्स्वार्थे कुटारच्च स्यादित्यर्थः । अवाचीन इति । अवाचीने विद्यमानादवात् कुटारचि अवकुटार इत्यर्थः। नते नासिकायाः। अवादित्येवेति । अवशब्दाद् नासिकाया अवनतेऽर्थे टीटच् , नाटच् , भ्रटच् एते प्रत्ययाः स्युरित्यर्थः । 'णमु प्रहृत्वे' इति धातो वे कृप्रत्यये नतशब्द इत्यभिप्रेत्याह नतं नमनमिति । प्रहृत्वमित्यर्थः । ननु यदि नासिकाया नमनमवटीटं तर्हि अवटीटा नासिकति कथमित्यत आह तद्योगादिति । नमनयोगात्तत्र लाक्षणिकमिति भावः । पुरुषोऽप्यवटीट इति । तादृशनासिकायोगादिति भावः । नेबिडबिरीसचौ । 'नते नासिकायाः संज्ञायाम्' इत्यनुवर्तते । नेः नासिकाया नतेऽर्थे बिडच् , बिरीसच् द्वौ प्रत्ययौ स्त इत्यर्थः । निबिडा वृक्षी इति तु उपमानादित्याहुः । इनपिटच् । इनच्पिटच् इति समाहारद्वन्द्वात्प्रथमैकवचनम् । चिकचि इत्यपि चिक चि इत्यनयोः समाहारद्वन्द्वात्प्रथमैकवचनम् । प्रकृतेरिति । नेरित्यर्थः। तत्र इनचि परे चिक इत्यादेशः । तत्र प्रकार उच्चारणार्थः । पिटचि तु परे चि इत्यादेशः । नतमिति । नपुंसके भावे तः । नमनमिति । नीचस्त्वमित्यर्थः । अवटीटमिति। नासिकासाधनके नमने वर्तमानादवशब्दात्स्वार्थे प्रत्ययः । कथं तर्हि नासिकायां पुरुषे चावटीटशब्दस्य प्रयोग इत्यत आह-तद्योगादिति नेबिडच । 'नते नासिकायाः संज्ञायाम्' इति वर्तते । निशब्दानासिकाया नतेऽभिधेय बिडज्विरीसची स्तः । निबिडमिति । तद्योमानिबिडा नासिका, निबिरीसा। कथं तहिं 'निबिडाः केशाः, निबिडं वस्त्रम्' इति । उपमानाद्भविष्यति । एतच्च काशिकायां स्पष्टम् । केचित्तु उक्तप्रयोगानुरोधेनेह सूत्रे 'नते नासिकाया:-' इति नानुवर्तत इति व्याचक्षते । प्रकृतेरिति । निशब्दस्येत्यर्थः । श्रादेशी चेति । प्रत्ययौ तत्संनियोगेन यथा.
१'निबिडाः केशा इति प्रयोगात् 'नते नासिकाया-' इत्यादेरत्रासम्बन्धः' इति तु शब्देन्दुशेखरे।