________________
५४८ ]
सिद्धान्तकौमुदी। [तद्धितेषु पाञ्चमिक बूनां रजः अलाबूकटम् । 'गोष्ठजादयः स्थानादिषु पशुनामभ्यः' (वा ३१०१)। गवां स्थानं गोगोष्ठम्। 'सङ्घाते कटच्' ( वा ३११०)। वीनां सङ्घातः अविकटः । 'विस्तारे पटच्' (वा ३११५) । अविपटः । 'द्वित्वं गोयुगच्' । (वा ३११६)। द्वौ वृषौ वृषगोयुगम् । षट्वे षड्गवच्' (वा ३११७) अश्वषनवम्। 'स्नेहे तैलच' ( वा ३११८)। तिलतलम् सर्षपतैलम् । 'भवने क्षेत्रे शाकटशाकिनी' ( वा ३११६) इशाकटम् , इशाकिनम् । १८३१ अवाकुटालेति । अलाबू , तिल, उमा, भङ्गा-इत्येभ्यः षष्ठयन्तेभ्यो रजसि अभिधेये कटचः उपसंख्यानमित्यर्थः । विकारप्रत्ययानामपवादोऽयम् । रजः चूर्णरेणुः । गोष्ठजादय इति । पशुनामभ्यः स्थानादिष्वर्थेषु गोष्ठजा स्यः प्रत्यया वक्तव्या इत्यर्थः । गोष्ठजादीनां प्रत्ययानां स्थानादीनां चार्थानां पञ्चनपराणि 'सङ्घाते कटच्' इत्यादीनि 'शाकटशाकिनौ' इत्यन्तानि षड् वार्तिकानि । तेषु चतुर्ष 'पशुनामभ्यः' इत्यनुवर्तते । अप्रसूतावयवः समूहः संघातः । प्रस्तावयवस्तु विस्तारः । द्वित्व इति । प्रकृत्यर्थगतद्वित्व इत्यर्थः । द्वौ वृषौ वृषगोयुगमिति । द्यवयवकसंघाताभिप्रायमेकवचनम् । द्वयं युग्ममित्यादिवत् । केचित्तु द्वौ वृषावित्यर्थे वृषगोयुगमिति स्वभावादेकवचनं विंशतिरित्यादिवदिलाहुः । एवमुष्ट्रगोकटच् प्रत्ययो भवति । रजसो विकारत्वाद्विकारे प्रत्ययानामपव दोऽयम् । अलाबूकटमिति । 'ओर' 'मड्वैतयोः-' इति मयड् वेह प्राप्तः । तिलकटमिति । 'असंज्ञायां तिलयवाभ्याम्' इति मयट प्राप्तः। उमाशब्दाद् वृतादित्वादन्तोदात्ताद् 'अनुदात्तादेश्व-' इत्यञ् , 'उमोर्णयोर्वा' इति वुच्च प्राप्तः । भागब्दात् 'तृणधान्यानां च द्यषाम्' इत्यायुदात्तत्वादण्मयड्वा प्राप्त इत्येवं यथासंभा प्रत्ययप्राप्तिरूह्या । हरदत्तस्तु-तिलशब्दस्य घृतादित्वादन्तोदात्तत्वमङ्गीकृत्य त्तः 'अनुदात्तादेश्व' इत्यञ्, 'असंज्ञायां तिलयवाभ्याम्' इति मयड् वा प्राप्त इत्याह । तत्र तिलशब्दस्य घृतादित्वकल्पने बीजं चिन्त्यम् । 'तृणधान्यानां च यषाम्' इति फिटसूत्रेणाद्युदात्तस्यैव न्याय्यत्वात् । 'तिलाश्च में' इत्यत्र तथैव वेदे पाठाच । गोष्ठज दय इति । 'संघाते कटच्' इत्यादीन्यस्यैव प्रपञ्चः । इहोभयत्रादिशब्दः प्रकारे । पशुनामभ्य इति । 'पशुनामादिभ्यः' इति भाष्ये प्रचुरः पाठः । गवां स्थानमिति । 'तस्येदम्' इत्यत्रार्थे 'सर्वत्र गोरजादिप्रसङ्गे-' इति यति प्राप्ते गोष्ठच् । संघात इति । अप्रसृतावयवः समूहः संघातः । प्रसृतावयवस्तु विस्तारः । कटच्पटचौ द्वावपि सामूहिकानामपवादौ । द्वित्व इति । प्रकृत्यर्थस्य द्वित्वे द्योत्य इयर्थः । उष्टगोयुगमिति । द्वयं युगमित्यादिवद् व्ययवसङ्घातप्राधान्यादेकवचनम् । एवमग्रेऽपि ।