________________
प्रकरणम् ३७ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५४७
१८२८ विनञ्भ्यां नानात्री नसह । ( ५-२-२७ ) असहायें पृथग्भावे वर्तमानाभ्यां स्वार्थे प्रत्ययौ । विना । नाना । १८२६ वेः शालच्छङ्कटचौ । ( ५-२-२८ ) क्रियाविशिष्टसाधनवाचकात्स्वार्थे । विस्तृतं विशालम् । विशकटम् । १८३० संप्रोदश्च कटच् । ( ५-२-२१) संकटम् । प्रकटम् । उस्कटम् । चाद् विकटम् | 'अल्लाबूतिलोमाभङ्गाभ्यो रजस्युपसंख्यानम्' (वा ३१०७) । श्रलाचुञ्चुप्चणपौ भवत इत्यर्थः । वित्तः प्रसिद्धः । चस्य नेत्संशेति । उपदेशे आदित्वाभावादिति भावः । विनञ्भ्याम् । नसहेति संघातः पृथक्त्वे वर्तते । प्रकृतिविशेषणमिदम्, तदाह असहार्थ इति । तस्य विवरणं पृथग्भाव इति । वर्तमानाभ्यामित्यनन्तरं विनञ्भ्यामिति शेषः । स्वार्थ इति । प्रत्ययार्थस्य निर्देशादिति भावः । प्रत्ययाविति । यथासङ्ख्यं नानानाविति शेषः । विनेति । वेर्ना प्रत्यये रूपम् । पृथगित्यर्थः । नानेति । नमो नानि श्रदिवृद्धौ रूपम् । पृथगित्यर्थः । नसहेत्यस्य प्रत्ययार्थत्वे तु 'ना' इत्यनेन न सहेति गम्येत । एवं सति नाना-न न सह, किंतु सहैवेत्यर्थः स्यात्, 'द्वौ नवौ प्रकृतमर्थं गमयतः' इति न्यायाद् इति भाष्ये स्पष्टम् । वेः शालच्छङ्कटचौ । क्रियाविशिष्टेति । क्रियाविशिष्टकारकवाचकात्स्वार्थे शालच्शङ्कटच्प्रत्ययौ स्त इति यावत् । इदं च भाष्ये स्पष्टम् । संप्रोदश्च कटच् । सं, प्र, उत् एभ्यश्च क्रियाविशिष्टसाधनवाचिभ्यः स्वार्थे कटच् स्यादित्यर्थः । चाद्वेरपि । संकटं संहतमित्यर्थः । निबिडीकृतमिति यावत् । प्रकटमिति । प्रज्ञातमित्यर्थः । प्रकाशमिति यावत् । उत्कटमिति । उन्नतमित्यर्थः । अधिकमिति यावत् । रूढशब्दा एते कथश्चिद्व्युत्पाद्याः । अलाबूति'चुटू' इत्येतदनित्यमिति समाधानान्तरमप्याहुः । नानाञाविति । नामो मकारो वृद्ध्यर्थः खरार्थश्च । 'न सह' इति प्रकृतिविशेषणम्, न प्रत्ययार्थ इत्याशयेनाह - असहार्थ इत्यादि । यदि प्रत्ययार्थः स्यात्ततो 'द्वौ प्रतिषेधौ प्रकृतमर्थं गमयतः ' इति सहार्थो गम्येत 'न न सह, अपि तु सहैव' इति । तस्मात्प्रकृतिविशेषणम् । एतश्च व्याख्यानाल्लभ्यते । यद्येवं सहेत्येव प्रत्ययार्थोऽस्तु, विनयोः प्रतिषेधार्थत्वादिष्टसिद्धेः 'विगर्दभरथकः' इत्यादौ विशब्दस्यापि प्रतिषेधवृत्तिर्दृष्टैवेति । सत्यम्, क्रियावाचिनो विशब्दात्सहार्थे प्रत्ययो विज्ञायेत । विगतेन सह विकृतेन सहेति । तस्माद्यथोक्तमेव न्याय्यम् । एतच्च हरदत्तप्रन्थे स्पष्टम् । स्वार्थ इति । विनिर्दिष्टार्थत्वादिति भावः । संप्रोदश्च । क्रियाविशिष्टसाधनवाचकात्स्वार्थे प्रत्ययः । संकटं संहतम्, संबाध इत्यर्थः । प्रकटं प्रज्ञातम्, प्रकाशत इत्यर्थः । उत्कटं उद्भूतम्, विकटं विकृतम्, रूढशब्दाक्षैते कथंचिद्व्युत्पाद्यन्ते । अलाबूतिलेत्यादि । एभ्यः पञ्चभ्यो रजस्यभिधेये