________________
५४६ ]
सिद्धान्तकौमुदी । [तद्धितेषु पाञ्चमिक
हैयङ्गवीनं संज्ञायाम् । ( ५-२-२३) योगोदोहस्य यिङ्गुरादेशो विकारार्थे खञ् च निपात्यते । दुह्यत इति दोहः क्षीरम् । ह्योगोदोहस्य विकारो हैयङ्गवीनम्नवनीतम् । १८२५ तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ । ( ५-२-२४) पीलूनां पाकः पीलुकुणः । कर्णस्य मूलं कर्णजाहम् । १८२६ पक्षात्तिः । ( ५-२-२५) मूलग्रहणमात्रमनुवर्तते । पतस्य मूलं पक्षतिः । १८२७ तेन वित्तश्चुञ्चुप्चणपौ । ( ५-२-२६) यकारः प्रत्यययोरादौ लुप्तनिर्दिष्टः, तेन चस्य नेरसंज्ञा । विद्यया वित्तो विद्यासुन्तुः । विद्याचणः । हैयङ्गवीनम् । ह्यस् इत्यव्ययं पूर्वेयुरित्यर्थे । तत्रोत्पन्नो गोदोहः - गोपयः, ह्योगो - दोहः । तस्मात् षष्ठ्यन्ताद् विकारार्थे खनि ईनादेशे प्रकृतेः हियङ्गु इत्यादेशे श्रोर्गुणे अवादेशे आदिवृद्धौ हैयङ्गवीनमिति भवति संज्ञायाम् इति भाष्यम्, तदाह
1
गोदोहस्येत्यादिना । नवनीतमिति । भाष्ये तु 'हैयङ्गवीनं घृतम्' इति दृश्यते । ' तत्तु हैयङ्गवीनं स्याद् ह्योगोदोहोद्भवं घृतम्' इत्यमरः । तस्य पाकमूले । पाकमूले इति समाहारद्वन्द्वात्सप्तमी । पाकः परिणामः । षष्ठ्यन्तेभ्यः पील्वादिभ्यः पाकेऽर्थे कुणप् । कर्णादिभ्यस्तु मूलेऽर्थे जाहजत्यर्थः । कुणपस्तद्धितस्वात् ककारस्य त्संज्ञा । जाहचस्तु जकारस्य प्रयोजनाभावाद् नेत्संज्ञा । पक्षात्तिः । मूलग्रहणमात्रमिति । पूर्वसूत्रे पाकमूल इति समासनिर्दिष्टत्वेऽप्येकदेशे स्वरितत्वप्रतिज्ञानादिति भावः । 'तस्य' इत्यप्यनुवर्तते । पक्षशब्दात् षष्ठ्यन्ताद् मूलेऽर्थे तिप्रत्ययः स्यादित्यर्थः । तेन वित्तः । तृतीयान्ताद् वित्त इत्यर्थे खञ् । हैयङ्गवीनम् । ह्योगोदोहस्येति । गोर्दो हो गोदोहः षष्ठीसमासः । तेन सह ह्यस्ाब्दस्य 'सुप्सुपा' इति समासः । ततो विकारे अनुदात्तलक्षणस्यात्रोऽपवादः खम् । यस्शब्देन कालप्रत्यासत्तिर्विवक्षिता । नवनीतमिति । यद्यपि वृत्तौ घृतमित्युक्तम्, तथैव चामरेणापि - ' तत्तु हैयङ्गवीनं यद् योगोहो-द्रवं घृतम्' इत्युक्तम्, तथापि घृतशब्देन नवनीतमेव विवचितमिति हरदत्तग्रन्थानुरोधेनेदमुक्तम् । तस्य पाक | पाकः परिणामः । मूलमुपक्रमः । ' तस्येदम्' इत्यादिषु प्राप्तेष्वयमारम्भः । जाहचो जकारस्य प्रयोजनाभावान्नत्वम् । पीलु, कर्कन्धु, शर्म, करीर, कुवल, बदर, अश्वत्थ खदिर पील्वादिः । कर्ण, अक्षि, नख, मुख, केश, पाद, गुल्फ, भ्रू, शृङ्ग, दन्त, श्रेष्ठ, पृष्ठ कर्णादिः । मूलग्रहणमात्रमिति । एकादेशे स्वरितत्वप्रतिज्ञाना - दिति भावः । पक्षतिरिति । प्रतिपत्, प्रक्षिणां पक्षमूलं च । तेन वित्तः । वित्तः प्रतीतः । 'वित्तो भोगप्रत्यययोः' इति निपातनाद् ' रदाभ्यां निष्ठातो नः-' इति नत्वं न । लुप्तनिर्दिष्ट इति । 'चुटुषाः प्रत्ययस्य' इति वक्तव्ये पृथग्योगकरणात्