________________
प्रकरणम् ३७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५४५ नोऽपृष्टः । कूपपतनमर्हति कौपीनं पापम् । तत्साधनस्वात्तद्वद्गोप्यत्वाद्वा पुरुषलिङ्गमपि, तत्सम्बन्धात्तदाच्छादनमपि । १८२२ वातेन जीवति । (५-२-२१) वातेन शरीरायासेन जीवति न तु बुद्धिवैभवेन स बातीनः। १८२३ साप्तपदीनं सख्यम् । (५-२-२२) सप्तभिः पदैरवाप्यते साप्तपदीनम् । १८२४ गन्तुं शक्य इत्यर्थः । शालीन । 'शालाप्रवेशमहत्यधृष्ट इति, कूपावतरणमर्हत्यकार्य. मिति चार्थे शालाप्रवेशशब्दात्कूपावतरणशब्दाच्च खञ् । प्रवेशशब्दस्य अवतरण. शब्दस्य चोत्तरपदस्य लोपे शालीनकौपीनशब्दौ निपात्येते' इति भाष्यम् । अधृष्ट इति। अप्रगल्भ इत्यर्थः । अप्रागल्भ्यादन्यत्र गन्तुमशक्तः शालाप्रवेशमेवाहेति यः स शालीन इति यावत् । कूपपतनमिति । कूपावतरणशब्दस्य विवरणमिदम् । कूपशब्दो नरकाभिधायी । कौपीनं पापमिति । नरकपतनसाधनमकार्य पापमित्यर्थः । अनयोरर्थयोरेतौ रूढौ। ननु पुरुषलिङ्गे कथं कौपीनशब्द इत्यत आहतत्साधनत्वादिति । पापसाधनत्वाद्वा, पापवदाच्छादनीयत्वाद्वा पुरुषलिङ्गे कौपीनशब्दो लाक्षणिक इत्यर्थः । तत्सम्बन्धादिति । कौपीनशब्दस्य लक्ष्यपुरुषलिङ्गसम्बन्धात् तदाच्छादनवनखण्डे कौपीनशब्दो लक्षितलक्षणया प्रयुज्यत इत्यर्थः । बातेन जीवति । वातशब्दात्तृतीयान्ताद् जीवतीत्यर्थे खञ् स्यादित्यर्थः । 'नानाजातीयानाम् अलब्धजीवनद्रव्याणां भारवहनादिकष्टकर्मजीविनां सङ्घो व्रातः । तस्य यजीवनाथ कष्टं कर्म तदिह बातम्' इति भाष्यम् । ताहशसङ्घवाचिनो वातशब्दात् 'तस्येदम्' इत्यणि वातशब्दोऽत्र तदीयकर्मणि विवक्षित इति तदाशयः, तदाह शरीरायासेनेति । साप्तपदीनम् । सप्तपदशब्दात् तृतीयान्तादवाप्यं सख्यमित्यर्थे खनि साप्तपदीनमिति भवतीत्यर्थः । सप्तभिः पदैरिति । पदविक्षेपैरित्यर्थः । निपातनादप् द्रष्टव्य इति । शालीनकौपीने । इमौ खप्रत्ययान्तत्वेन विप्रात्येते । रूढिशब्दावेतौ कथंचिव्युत्पाद्याविति नात्रावयवार्थेऽभिनिवेशः कार्यः । शालाप्रवेशमिति । अप्रागल्भ्यादन्यत्र गन्तुमशक्तः शालामेव प्रवेष्टुमर्हतीत्यर्थः । कूपपतनमिति । यदकार्य तत्प्रच्छादनीयत्वात्कूपावतरणमर्हतीत्यर्थः । तदाच्छादनमिति । वासःखण्ड इत्यर्थः । अन्ये त्वाहुः-यदकार्यशब्दे यः करोति स कियासामान्यवचनः, तेन लजाहेतुत्वेन अद्रष्टव्यत्वात्पुरुषलिङ्गं कौपीनम् । अस्पृश्यत्वातदाच्छादनमिति । शरीरायासेनेति । भारवहनादिनेत्यर्थः । यद्यपि वातशब्दो लोके सङ्घातवचनः, तथाप्यत्रत्यभाष्यादिग्रन्थपर्यालोचनया अयमेवार्थ इहोचित इति भावः । साप्तपदीनम् । योग्यतया समर्थविभक्तिस्तृतीयेति दर्शयति-सप्तभिः पदैरिति । पदमिह संभाषणं पादविक्षेपो वा । तद्धितार्थे द्विगुः । अवाप्यत इत्यर्थे