________________
५४४ ]
सिद्धान्तकौमुदी ।
[तद्धितेषु पाञ्चमिक
श्रध्वानमलं गच्छति अध्वन्यः, अध्वनीनः । 'ये चाभावकर्मणोः ' ( सू ११५४ ) 'आत्माध्वानौ खे' ( सू १६७१ ) इति सूत्राभ्यां प्रकृतिभावः । १८१८ अभ्य मित्राच्छ च । ( ५-२-१७) चाद्यखौ । श्रभ्यमित्रीयः, श्रभ्यमित्रयः, श्रभ्यमित्रीणः । श्रमित्राभिमुखं सुष्ठु गच्छतीत्यर्थः । १८१६ गोष्ठात्खभूतपूर्वे । ( ५-२-१८) गोष्ठो भूतपूर्वः गौष्ठीनो देशः । १८२० अश्वस्यैका - हगमः । ( ५-२-१६ ) एका हेन गम्यते इत्येकाहगमः श्रश्वीनोऽध्वा । १८२१ शालीन कौपीने धृष्टाकार्ययोः । ( ५-२-२० ) शालाप्रवेशमर्हति शालीइत्यर्थः । अध्वानमलंगच्छतीति । अलंगामीत्यनेन विग्रहे तु अध्वनोऽलङ्गामीत्येव विग्रहः । श्रभ्यमित्राच्छु च । श्रमित्रः शत्रुः । तमभिमुखो भूत्वेत्यर्थे 'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावे अभ्यमित्रशब्दः । तस्माद् अलङ्गामीत्यर्थे छ. प्रत्ययः स्यादित्यर्थः। गोष्ठात्खञ् । 'भूतपूर्व' इति प्रकृतिविशेषणम् । भूतपूर्वार्थवृत्तेर्गोष्ठशब्दात्स्वार्थे खः स्यादिति वृत्तिकृतः । अश्वस्यैकागमः । श्रश्वशब्दात् षष्ठ्यन्ताद् एकाहगम इत्यर्थे खञ् स्यादित्यर्थः । एकाहगमशब्दं व्युत्पादयतिएकाहेनेति । अस्मादेव निपातनात्कर्मणि गमेरबिति भावः । 'कर्तृकरणे कृता-' इति समासः । अश्वस्येति कर्तरि षष्ठी । आश्वीनोऽध्वेति । अश्वेन कर्त्रा एकान शोभनं पाचक इत्यत्र तु सा न भवति । फलव्यापारयोः क्रियाकर्मभावव्यवहारे सत्यपि फलस्यौपचारिककर्मत्वात्, तद्विशेषणत्वाच्च मृद्वादेरिति तस्याशय इत्याहुः । अन्ये त्वेवं तर्हि तुल्यन्यायेन क्रियाविशेषणाद् द्वितीयाया अप्यप्रवृत्तिः स्यात् । तस्मात् 'तदर्हम्' इति निर्देशादनित्या कृद्योगषष्ठीति क्रियाविशेषणात्सा न स्वीक्रियत इति हरदत्ताशयः कथंचिद्वर्णनीय इत्याहुः । वस्तुतस्तु पश्चादर्थेऽव्ययीभावोऽयमिति निर्विवादम् । पश्चादिति चास्तात्यर्थे निपातितम् । तच्च यद्यपि विभक्तित्रयसाधारणम्, तथापीह योग्यताबलात्सप्तम्यर्थवृत्तिः । श्रतस्तस्य कर्मत्वायोगात्प्रथमान्तादेवेह प्रत्यय इति वक्तुमुचितम्, कृद्योगलक्षणषष्ठीशङ्काप्यत एव नेति बोध्यम् । श्रभ्यमित्रात् । अभ्यमित्रशब्दो ' लक्षणेनाभिप्रती श्रभिमुख्ये' इत्यव्ययीभावः । क्रियाविशेषणत्वाद् द्वितीया समर्थविभक्तिः । गोष्ठात्खञ् । गावस्तिष्ठन्त्यस्मिन्निति गोष्ठः । ‘घञर्थे कविधानम्' इत्यधिकरणे कः । ' अम्बाम्बगोभूमि -' इति षत्वम् । पूर्वं भूतो भूतपूर्वः 'सुप्सुपा' इति समासः । श्रश्वस्य । कर्तरि षष्ठीयं निर्देशादेव समर्थविभक्तिः । एकाहगम इति । 'कर्तृकरणे कृता -' इति समासः । नन्विह 'ग्रहवृदृनिश्चिगमश्च' इत्यपं बाधित्वा 'परिमाणाख्यायां सर्वेभ्यः' इति घञ् प्राप्नोति, अस्ति चात्र परिमाणाख्या 'एकाहेन गम्यते' इति परिच्छेदावगमात् । अत्राहुः - अस्मादेव