SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ३७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५४३ 1 विजायते श्रद्यश्वीना वडवा । आसन्नप्रसवेत्यर्थः । केचित्तु विजायत इति नानुवर्तयन्ति । श्रद्यश्वीनं मरणम् । श्रासन्नमित्यर्थः । १८१५ श्रागवीनः । ( ५-२-१४) श्राङ्पूर्वाद्गोः कर्मकरे खप्रत्ययो निपात्यते । गोः प्रत्यर्पणपर्यन्तं यः कर्म करोति स नागवीनः । १८१६ अनुग्वलं गामी । ( ५-२- १५ ) अनुगु - गोः पश्चात्पर्याप्तं गच्छति अनुगवीनो गोपालः । १८१७ अध्वनो यत्खौ । ( ५-२-१६) विजायत इत्यर्थे अद्य श्वस् इति समुदायात्खः स्यादासन्नत्वे गभ्य इत्यर्थः । अद्यश्वीना वडवेति । श्रद्य वा श्वो वेति वार्थे निपातनात्समासः । खे सति 'अव्ययानां भमात्रे -' इति टिलोपः । सूत्रे अद्यश्वीनेति टाबन्तनिर्देशे तु अद्यश्वीनो गोसमूहः, अद्यश्वीनं गोमण्डलमिति न स्यात् । आगवीनः । कर्मकर इति । वार्तिकलभ्यमिदम् । भृतिं गृहीत्वा यः कर्म करोति स कमकरः । अत्र गोपालो विवक्षितः । स हि प्रातर्गा गृहीत्वा सायं चारयित्वा स्वामिनो गृहं नीत्वा प्रत्यर्पयति, तदाह गोः प्रत्यर्पणेति । श्रगवीन इति । गोशब्दो गोप्रत्यर्पणे लाक्षणिकः। 'आङ्मर्यादाभिविध्योः' इत्यव्ययीभावे 'गोस्त्रियोः -' इति ह्रस्वत्वे गुशब्दात् खे ‘श्रोर्गुणः’ इति भावः । अनुग्वलं गामी । अनुगु इत्यविभक्तिको निर्देशः । गोः पश्चादिति विग्रहे पश्चादर्थे अनोरव्ययीभावे ह्रस्वत्वे अनुगुशब्दः । तस्माद् अलंगामीत्यर्थे खः स्यादित्यर्थः । अत्र अनुगु इत्यस्य क्रियाविशेषणत्वाद् द्वितीयैव समर्थविभक्लिरिति हरदत्तः । कृद्योगषष्ठीत्यन्ये । अलंगामीत्यत्र अलंशब्दस्य विवरणं - पर्याप्तमिति क्रियाविशेषणम् । अध्वनो यत्खौ । श्रध्वन्शब्दाद् अलंगामीत्यर्थे यत्खौ स्त नादवष्टब्धशब्द प्रसन्नपरः । 'विजायते' इति हि वर्तते । स च गर्भविमोचनार्थकस्तदाह—आसन्नप्रसवेत्यर्थ इति । कर्मकर इति । यस्तु प्रातर्गां गृहीत्वा गच्छति गोपालस्तस्मिन्नित्यर्थः । गोः प्रत्यर्पणपर्यन्तमिति । गोशब्दो लक्षणया गोः प्रतिदाने वर्तत इति भावः । श्रागवीन इति । 'मर्यादाभिविध्योः' इत्यव्ययीभावे 'गोस्त्रियो-' इति हखे कृते खप्रत्ययः । 'श्रोर्गुणः' । अनुग्वलं । ख इत्यनुवर्तते । अनुगुशब्दाद् 'अलंगामी' इत्यस्मिन्नर्थे खः स्यात् । गोः पश्चादिति । पश्चादर्थेऽव्ययीभावः । पर्याप्तमिति । क्रियाविशेषणम् । अत्र हरदत्तः - अनुवि त्यस्य क्रियाविशेषणत्वाद् द्वितीयान्तादिह प्रत्ययः । न चालंगामीत्यस्य 'सुप्यजातौ - ' इति णिनिप्रत्ययान्ततया कृद्योगलक्षणा षष्टी स्यादिति वाच्यम्, क्रियाविशेषणात्तदप्रवृत्तेः शोभनं पाचक इत्यादौ तथादर्शनादित्याह । अत्र केचित् – धातूपात्त व्यापारजन्यफलाश्रयत्वं यत्र तन्मुख्यं कर्म, यत्र तु व्यापारजन्यत्वमात्रं तदौपचारिकम् । ततश्च तण्डुलानां पाचक इत्यत्र मुख्य कर्मणि कृद्योगलक्षणा षष्ठी भवति । मृदु पाचकः,
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy