________________
५४२] सिद्धान्तकौमुदी। तद्धितेषु पाञ्चमिकपूर्वपदे निपात्यते। समांसमीना गौः। 'समांसमीना सा यैव प्रतिवर्ष प्रसूयते' इत्यमरः। 'खप्रत्ययानुत्पत्तौ यलोपो वा वक्तव्यः' (वा ३१००)। समां समां विजायते । समायां समायां वा । १८१४ अद्यश्वीनावष्टब्धे । (५-२-१३) अद्य श्वो वा तत्र सप्तम्यन्तस्य समायामित्यस्य 'नित्यवीप्सयोः' इति द्विवचने समायां समायामिति भवितव्यम् । तत्र पदद्वयमपि यकारलोपसहितं निर्दिश्यते-समां समामिति । समायां समायामित्यर्थः । एवं च समायां समायां विजायत इत्यर्थे सप्तम्यन्तद्वयसमुदायाद् विजायत इत्यर्थे खः स्यादिति फलितम् । ननु सप्तम्यन्तद्वयसमुदायात् खप्रत्ययोत्पत्तौ तदन्तस्य समुदायस्य प्रातिपदिकत्वात् तदवयवयोः सप्तम्योलुंकि समासमीन इति स्यात् , इष्यते तु समांसमीनेति, तत्राह यलोप इति । पूर्वपदे विभक्ते तस्य यकारस्य लोपः, अवशिष्टस्य विभक्त्यंशस्य अलुक्च निपात्यत इत्यर्थः। भाष्ये तु 'यलोपनिपातनादवशिष्टविभक्त्यंशस्य न लुक्' इत्युक्तम् । ननु समा समामिति निर्देशाद् उत्तरपदेऽपि यकारलोपः अवशिष्टविभक्त्यंशस्य अलुक् च स्यादित्यत आह पूर्वपद इति । 'पूर्वपदस्य यलोपवचनम्' इति वार्तिकादिति भावः। खप्रत्ययानुत्पत्ताविति। पदद्वयेऽपीति शेषः । इह विभाषया कदाचित् खप्रत्ययाभावे सति समायां समायां विजायत इति वाक्यदशायां सप्तम्यन्तद्वये यकारलोपो वा वक्तव्य इत्यर्थः । तत्र पदद्वयेऽपि निपातनादेव यकारलोपः सिद्धः, सूत्रे उभयत्रापि तथोचाररणात् । विकल्प एव तु यलोपस्य वाक्यदशायां वाचनिक इति बोध्यम् । एतत्सर्व भाष्ये स्पष्टम् । अद्यश्वीनाऽवष्टब्धे । अद्यश्वीनेत्यविभक्तिको निर्देशः। अवष्टब्धम्
आसन्नम्। 'अवाच्चालम्बनाविदूर्ययोः' इत्याविदूर्ये स्तम्भः षत्वविधानात् । अद्य श्वो वा विभक्ति-' इति यथार्थेऽव्ययीभावः । समांसमाम् । यलोप इति । 'समायाम्' इत्यत्र यकारलोप इत्यर्थः । पूर्वपदे निपात्यत इति । अन्यथा तद्धिते उत्पन्ने यथोत्तरपदे सुपो लुग् भवति 'सुपो धातुप्रातिपदिकयोः' इति तथा पूर्वपदेऽपि स्यादिति भावः । समांसमीनेति । वीप्सायां द्विवचनम् । सुबन्तसमुदायः प्रकृतिः । विजायत इत्येतद्याचष्टे-प्रसूयत इति । विपूर्वको जनिर्गर्भविमोचने वर्तत इति भावः । गर्भविमोचने कृत्स्नायाः समाया व्याप्त्यभावाद् ‘अत्यन्तसंयोगे च' इति द्वितीया न भवतीत्याशयेनाह-समायामित्यादि । खप्रत्ययानुत्पत्ताविति । पदद्वयेऽपीति शेषः । वार्तिकेन समांसमामिति सौत्रप्रयोगस्तूपपन्न इति भावः । अद्यश्वीना ।अविभक्तिको निर्देशो न तु स्त्रीलिङ्गनिर्देशोऽयम् । अद्यश्वीनो गोसमूहः। अद्यश्वीनं गोमण्डलमित्यादावपीष्टत्वात् । अद्य श्वो वेति । निपातनाद् वार्थे समासोऽयमिति भावः। 'अवाचालम्बना-' इति सूत्रेण आविदूर्ये स्तम्भेः षत्वविधा