________________
प्रकणरम् ३७ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५४१
व्यनि पारम्पर्यम् । कथं पाशेवर्यवदिति श्रसाधुरेव खप्रत्ययसंनियोगेनैव परोवरेति निपातनात् । १८१२ श्रवारपारात्यन्तानुकामं गामी । ( ५-२-११) श्रवारपारं गामी श्रवारपारीणः । अवारीणः । पारीणः । पारावारीणः । श्रत्यन्तं गामी अत्यन्तीनः । भृशं गन्तेत्यर्थः । अनुकामं गामी अनुकामीनः । यथेष्टं गन्ता । १८१३ समां समां विजायते । ( ५-२-१२) यज्ञोपोऽवशिष्टविभक्तेरलुक्च खप्रत्ययसंनियोगशिष्टत्वादित्यत आह- परम्पराशब्दस्त्विति । तस्मादेवेति । परम्परेत्यव्युत्पन्नप्रातिपदिकादेवेत्यर्थः । कथमिति । परावरशब्दाद् भावे वा स्वार्थे वा ष्यञि अवरस्यादेरुत्वे पारोवर्यशब्दाद् मतुपि पारोवर्यवदिति कथमित्याक्षेपः, उत्वस्य खप्रत्ययसंनियोगशिष्टत्वादिति भावः । उत्वं दुरुपपादमेवेत्याह- असाधुरेवेति । नन्वत्र परोवरेति निर्देशात् खादन्यत्राप्युत्वं किं न स्यादित्यत श्राह खप्रत्ययसंनियोगेनैवेति । अत एव भाष्ये 'परांश्चावरांश्चानुभवति' इत्येव विग्रहो दर्शित इति भावः । अवारपार । श्रवारपार, अत्यन्त अनुकाम एभ्यो गामीत्यर्थे खः स्यादित्यर्थः । गामीत्यस्य श्रवश्यं गमिष्यन्नित्यर्थः । ' आवश्यक ाधमरार्ययोर्णिनिः' इति णिनिः । 'भविष्यति गम्यादयः' इति भविष्यत्कालता । 'बहुलमाभीक्ष्ण्ये' इति वा णिनिः । अवारपारीण इति । श्रवारपारं गामीति विग्रहः । अवारपारशब्दाद्विगृहीताद्विपरीतादपि, व्याख्यानात् । तदाह अवारीणः । पारीण इति । अत्यन्तीन इति । अत्यन्तशब्दोऽत्र भृशवाची । तदाह भृशं गन्तेति । अनुकाममिति । काम इच्छा । तामनतिक्रम्येत्यर्थः । पदार्थानतिवृत्तावव्ययीभावः । समां समाम् । विपूर्वो जनिर्गर्भविमोचने वर्तते । विजायते - गर्भं विमुञ्चतीत्यर्थः । धात्वर्थेनोपसंग्रहादकर्मकः । अतो न कर्मणि द्वितीया । गर्भविमोचनेन कृत्स्नायाः समाया अव्यापनादत्यन्तसंयोगलक्षणा द्वितीयापि न भवति, किंतु सप्तम्येव । निपात्यते तस्मात्परस्यातः 'एङः पदान्तात्' इति पूर्वरूपादेश इति पक्षान्तरमाहुः । अवारपार । गामीति । 'गमेरिनिः, श्राङि णिच्च' इति बहुलवचनात्केवलादपि णिनिः । 'भविष्यति गम्यादयः' इति भविष्यत्कालता । न्यासकारस्तु 'श्रावश्यके णिनिः सोऽपि भविष्यत्येव' इत्याह । श्रवारपारमिति । 'केनोर्भविष्यदाधमर्ययोः' इति षष्ठीप्रतिषेधः । केचित्तु 'गत्यर्थकर्मणि -' इति सूत्रे द्वितीयाग्रहणमपवादविषये विधानार्थम् । तेन कृद्योगषष्ठी न भवति 'ग्रामं गन्ता' इतिवदिति व्याचख्युः । तदसत्, 'अकेनोः-' इति प्रतिषेधे षष्ठी प्रसङ्गस्यैवाभावात् । अवारीण इत्यादि । 'विगृहीताद्विपरीतादपीष्यते' इति भावः । अत्यन्तमिति । क्रियाविशेषणम् ।
काममिति । काम इच्छा तस्य सदृशमनुकामसू । कामानुरूपमित्यर्थः । 'अव्ययं
w