________________
५४० ]
सिद्धान्तकौमुदी। [तद्धितेषु पाञ्चमिकसर्वान्नीनो भिक्षुः । अयानयः स्थलविशेषः । तं नेयः अयानयीनः शारः । १८११ परोवरपरम्परपुत्रपौत्रमनुभवति । (५-२-१०) परांश्चावरांश्वानुभवतीति परोवरीणः । अवरस्योत्त्वं निपात्यते । परांश्च परतरांश्चानुभवति परम्परीणः । प्रकृतेः परंपरभावो निपात्यते । पुत्रपौत्रान् अनुभवति पुत्रपौत्रीणः। परम्पराशब्दस्तु अव्युत्पन्नं शब्दान्तरं स्त्रीलिङ्गम् । तस्मादेव स्वार्थ स्यादित्यर्थः । अनुरायामे सादृश्ये वेति । श्राद्ये 'यस्य चायामः' इत्यव्ययीभावः, द्वितीये सादृश्ये अव्ययीभावः। अनुपदं बद्धति । क्रियाविशेषणत्वाद् द्वितीया । अनुपदीना उपानदिति । पदसंबन्धिोपलक्षितेत्यर्थः । पदेन सदृशीति वा । तत्तुल्यपरिमाणेति यावत् । अयानय इति । द्यूते शाराणां प्रदक्षिणपरिवर्तनम् अयः, प्रसव्यपरिवर्तनम् अनयः । अयसहितः अनयः अयानयः । प्रदक्षिणप्रसव्यगामिनां यस्मिन् युग्मादिपदे स्थितानां परकीयैः शारैरनाक्रमणं तत् स्थानमिह अयानयशब्देन लक्षणयोच्यत इत्यर्थः । एतत्सर्व भाष्ये स्पष्टम् । 'ससहायस्य शारस्य परै कम्यते पदम् । असहायस्तु शारेण परकीयेण बाध्यते ॥' इति द्यूतशास्त्रमर्यादा। विस्तरस्तु कैयटमनोरमादावनुसंधेयः । तं नेय इति । तं स्थानविशेषमयानयाख्यं प्रापणीय इत्यर्थः । णीञ् द्विकर्मकः, प्रधाने कर्मणि यत् । 'अप्रधाने द्वितीया' इति भावकर्मलकारप्रक्रियायां वक्ष्यते। परोवर । परोवर, परम्पर, पुत्रपौत्र एभ्यो द्वितीयान्तेभ्यः अनुभवतीत्यर्थे खः स्यादित्यर्थः। परोवरीण इति। परे च अवरे च परावरे । ताननुभवतीत्यर्थः । अवरस्योत्त्वमिति । अवरशब्दस्य आदेरकारस्य खप्रत्ययसंनियोगेन उत्वं निपात्यत इत्यर्थः । एवं च विग्रहवाक्ये इदमुत्वं न भवति । प्रकृतेरिति । परपरतरशब्दाद् द्वन्द्वात्खे सति तत्संनियोगेन प्रकृतेः परम्परभावो निपात्यत इत्यर्थः । नन्वेवं सति कल्याणपरम्परेत्यादौ कथं परम्पराशब्दः ? परम्परभावस्य द्वितीयान्तेभ्योऽनुपदादिभ्यो यथासंख्यं बद्धादिष्वर्थेषु खः स्यात् । अनुरायाम इत्यादि । 'यस्य चायामः' इति यथार्थे 'अव्ययम्-' इति वा अव्ययीभाव इत्यर्थः । सर्वानीन इति । प्रकारकास्न्यें सर्वशब्दः । यान्यन्नानि लभ्यन्ते उष्णानि शीतलानि सरसानि नीरसानि वा सर्वायिा भक्षयतीत्यर्थः । 'अयः प्रदक्षिणगमनम् । अनयः प्रसव्यगमनम् । प्रदक्षिणप्रसव्यगामिनां शाराणां यस्मिन्परैरसमावेशः सोऽयमयानयः' इति काशिका । तं नेय इति । नयतेर्द्विकर्मकत्वादप्रधाने कर्मणि द्वितीया । अयानयीनः शार इति । 'फलकशिरसि स्थित इत्यर्थः' इति काशिका । अवरस्येति । आदेरिति शेषः । उत्वे कृते 'श्राद्गुणः' । केचित्तु ओत्वं परशब्दस्य
१ 'दैर्ध्यसदृशोपलक्षितेत्यर्थः' इति क. ।