________________
प्रकरणम् ३७] बालमनोरमा तत्त्वबोधिनीसहिता। [५३६ खीनः । १८०८ तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति । (५-२-७) सर्वादेः पथ्याद्यन्ताद् द्वितीयान्तात्खः स्यात् । सर्वपथान्व्यामोति सर्वपथीनः। सर्वाङ्गीणः । सर्वकर्मीणः। सर्वपत्रीणः । सर्वपात्रीणः । १८०६ आप्रपदं प्राप्नोति। (५-२-८) पादस्याग्रं प्रपदम् , तन्मर्यादीकृत्य प्राप्रपदम्-श्राप्रदीनः पटः । १८१० अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु । (५-२-६) अनुरायामे सादृश्ये वा । अनुपदं बद्धा अनुपदीना उपानत् । सर्वानानि भक्षयति संमुखशब्द इत्यर्थः । निपात्यत इति । इदं च भाष्ये स्पष्टम् । एवं च समित्युपसर्गपूर्वादयं प्रत्ययो नेष्यत इति भावः । तत्सर्वादेः। पथिन् , अङ्ग, कर्मन्, पत्र, पात्र एषां समाहारद्वन्द्वात् पञ्चम्यर्थे द्वितीया । प्रातिपदिकविशेषणत्वात्तदन्तविधिः। ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्तीति निषेधस्तु न, केवलानामेषां सर्वादित्वस्यासंभवात् । तदिति तु द्वितीयान्तं व्याप्नोतीत्यत्रान्वेति । ततश्च तद्यानोतीत्यर्थे सर्वशब्दपूर्वपदकेभ्यः पथ्यङ्गकर्मपत्रपात्रान्तेभ्यः प्रातिपदिकेभ्यो द्वितीयान्तेभ्यः खः स्यादित्यर्थः फलति । तदाह सर्वादेरित्यादिना । सर्वपथानिति । 'ऋक्पू:-' इति समासान्तः । आप्रपदम् । आप्रपदमित्यव्ययीभावाद् द्वितीयान्तात्प्रामोतीत्यर्थे खः स्यादित्यर्थः । पदस्याग्रं प्रपदमिति । 'पादानं प्रपदम्' इत्यमरः। प्राप्रपदमिति । 'पाङ् मर्यादाभिविध्योः' इत्यव्ययीभावः। अनुपद । अनुपद, सर्वान, अयानय एषां समाहारद्वन्द्वाद् द्वितीया । बद्धा, भक्षयति, नेय एषां द्वन्द्वात् सप्तमी। तिङन्तस्य द्वन्द्वानुप्रवेश पार्षः । अनुपदादिभ्यो द्वितीयान्तेभ्यः क्रमाद्बद्धादिष्वर्थेषु खः पुप्लुवे बहु लोभयन्' इति । यथामुखं दर्शन इति । अव्ययीभावस्यापि यथामुखशब्दस्योन्मत्तगङ्गादिवत्सत्त्ववचनत्वात्कर्मशक्तियोगे सति कृद्योगलक्षणा षष्ठी। तस्याः 'नाव्ययीभावात्-' इत्यमादेशः । सर्वस्य मुखस्येति । 'संमुखस्य' इति नोक्तम् । प्रत्ययसंनियोगेनैव समशब्दस्यान्त्यलोपनिपातनात् । संशब्दस्तु समशब्दार्थे न दृश्यते, 'संमुखो भव' इत्यत्र 'अभिमुख' इत्यर्थप्रतीतेः । तत्र च खप्रत्ययस्याजनिष्यमाणत्वात् । कथं तर्हि-'संयुगे संमुखीनं तमुद्गदं प्रसहेत कः' इति भट्टिः। अभिमुखावस्थानात्सामाद्भविष्यतीति हरदत्तः । तत्सर्वादेः । तदिति द्वितीया समर्थविभक्तिः । व्याप्नोतीति प्रत्ययार्थः । परिशिष्टं प्रकृतिविशेषणम् । तत्र केवलानां पथ्यादीनां सर्वादित्वासम्भवात्प्रातिपदिकैरपि तैस्तदन्तविधिः । तदाह पथ्याद्यन्तादिति । पथ्यकर्मपत्रपात्रान्तात्प्रातिपदिकादित्यर्थः । सर्वपथीन इति । 'पूर्वकालैक-' इति समासः। 'ऋक्पू:-' इति समासान्तः। तस्य पथ्यन्तसमासग्रहणेन ग्रहणाद्भवति खप्रत्ययः। अनुपदसर्वान्नायानयनम् । बद्धाभक्षयतीत्यत्र निपातनात्तिङन्तेन सह द्वन्द्वः ।