________________
५३८ ] सिद्धान्तकौमुदी। [तद्धितेषु पाञ्चमिकमाष्यम् , माषीणम् । उम्यम् , श्रीमीनम् । भङ्गयम् , भाङ्गीनम् । अणव्यम् , पाणवीनम् । १७०६ सर्वचर्मणः कृतः खखौ । (५-२-५) असामर्थेऽपि निपातनात्समासः । सर्वश्चर्मणा कृतः सर्वचर्मीणः, सार्वचर्मीणः । १८०७ यथामुखसंमुखस्य दर्शनः खः । (५-२-६) मुखस्य सदृशं यथामुखं प्रतिबिम्बम् । निपातनात्सादृश्येऽव्ययीभावः । समं सर्व मुखं सम्मुखम् । समशब्दस्या. न्तलोपो निपात्यते । यथामुखं दर्शनो यथामुखीनः । सर्वस्य मुखस्य दर्शनः सम्मुइत्यमरः । अणव्यमिति । अणुर्धान्यविशेषः । यति 'भोर्गुणः' 'वान्तो थि-' इत्यवादेशः । सर्वचर्मणः । सर्वचर्मन्शब्दात्तृतीयान्तात् चर्मणा सर्व कृतम् इत्यर्थे खखनौ स्त इत्यर्थः । औचित्यादिह तृतीया समर्थविभक्तिः । नन्विह सर्वशब्दस्य कृते अन्वयात् चर्मण्यन्वयाभावादसामर्थ्याचर्मणा समासासंभवात् कथं सर्वचर्मन्शब्दा. त्प्रत्यय इत्यत आह असामर्थ्य पीति । सर्वश्चर्मणा कृत इति विग्रहवाक्यम् । चर्मणा कृत्स्नः कृत इत्यर्थः। सर्वचर्मीण इति। 'नस्तद्धिते' इति टिलोपः। सर्वेण चर्मणा कृत इत्यर्थे तु न खखी व्याख्यानात् । यथामुख । यथामुख, संमुख आभ्यां षष्ठ्यन्ताभ्यां दर्शन इत्यर्थे खः स्यादित्यर्थः। दृश्यतेऽस्मिन्निति दर्शन आदर्शादिः। ननु मुखस्य सदृशं यथामुखमिति कथमव्ययीभावः ? 'यथाऽसादृश्ये' इति सादृश्ये तनिषेधादित्यत आह निपातनादिति । संमुखशब्दे आभिमुख्यार्थकस्य समित्युपसर्गस्य न प्रवेशः, किंतु समशब्दस्य सवेपर्यायस्येत्याह समं सवे मुखं संमुखमिति । सममित्यस्य विवरणं सर्वमिति । समं च तन्मुखं चेति कर्मधारये
औमीनं भाङ्गीनमिति । ननूमाभङ्गयोर्धान्यत्वाभावात्कथमिह खञ् । 'व्रीहयश्च मे यवाश्च मे' इति चमकानुवाके हि द्वादशैव धान्यानि पठितानि, न तूमाभगौ पठितौ इति चेत् । मैवम् , 'शणसप्तदशानि धान्यानि' इति स्मरणात् । तत्र चोमाभङ्गयोरपि पाठाद्धान्यत्वमस्तीति भाष्यादौ स्थितत्वात् । न च चमकानुवाके धान्यपरिगणनेनार्थः, तत्राधान्यानामप्यश्मादीनां पाठात् । धान्यानामपि केषांचित् कोद्रवादीनामपाठात् । तस्मादन्यत एव धान्यनिर्णय इति पूर्वोक्तस्मृत्या तयोर्धान्यत्वमस्तीति ज्ञेयम् । सर्वचर्मणः। 'खश्च' इत्येव तु नोक्तम् । यतोऽप्यनुकर्षः संभाव्यतेति । अत्र तृतीया समर्थविभक्तिः । कृत इति प्रत्ययार्थे चर्मणः करणत्वस्योचितत्वात् । सर्वश्चर्मणेति । सर्वेण चर्मणा कृत इत्यर्थे तद्धितो नेष्यत इति भावः। यथामुख । दृश्यतेऽस्मिन्दर्शन आदर्शादिः। अधिकरणे ल्युट् । 'असादृश्ये' इति प्रतिषेधात्सादृश्ये यथाशब्दस्य कथं समासस्तत्राहनिपातनादिति । एतच्च वृत्तिग्रन्थमनुसृत्योक्तम् । भट्टिकाव्ये तु पदार्थानतिवृत्तौ यथाशब्द श्राश्रितः । तथा च मायामृगं प्रक्रम्योक्तम्-'ययामुखीनः सीतायाः