________________
प्रकरणम् ३६ ] बालमनोरमा-तत्त्ववोधिनीसहिता। [५३७
अथ तद्धितेषु पाश्चमिकप्रकरणम् । ३७।
१८०२ धान्यानां भवने क्षेत्रे खञ् । (५-२-१) भवन्त्यस्मिन्निति भवनम् । मुद्दानां भवनं क्षेत्रं मौद्गीनम् । १८०३ व्रीहिशाल्योर्डक। (५-२-२) त्रैहेयम् । शालेयम् । १८०४ यवयवकषष्टिकाद्यत् । (५-२-३) यवानां भवनं क्षेत्रं यव्यम् । यवक्यम् । षष्टिक्यम् । १८०५ विभाषातिलमाषोमाभङ्गाणुभ्यः। (५-२-४) यद्वा स्यात् । पक्षे खन् । तिल्यम् , तैलीनम् ।
अथ पाञ्चमिका निरूप्यन्ते । धान्यानां भवने । धान्यवाचिभ्यः षष्टयन्तेभ्यो भवने क्षेत्रेऽर्थे खनित्यर्थः । भवनशब्दस्य भावल्युडन्तत्वे क्षेत्रशब्दसामानाधिकरण्यानुपपत्तेराह-भवन्त्यस्मिन्निति भवनमिति । भूधातुरुत्पत्तिवाची । उत्पत्तिस्थानं भवनमिति लभ्यते । धान्योत्पत्तिस्थानं क्षेत्रम् । 'केदारः क्षेत्रम्' इत्यमरः। क्षेत्रशब्दाभावे भूधातोः सत्तावाचित्वमाश्रित्य यत्र विद्यते तद्भवनमिति व्युत्पत्या आधारसामान्यं गृहकुसूलादि लभ्येत । अतः क्षेत्रपदम् । भवनपदाभावे तु क्षेत्रशब्देन सेतुबन्धकाश्यादिपुण्य प्रदेशोऽपि लभ्येत । अतो भवनपदम् । उभयोपा. दाने तु धान्योत्पत्तिप्रदेश एव लभ्यत इति न पौनरुक्त्यम् । व्रीहिशाल्योर्डक् । व्रीहिशब्दात् शालिशब्दाच षष्ठ्यन्ताद्भवने क्षेत्रेऽर्थे ढगित्यर्थः। खोऽपवादः । यवयवक । यव, यवक, षष्टिक एभ्यः षष्ठ्यन्तेभ्यो भवने क्षेत्र यत्स्यादित्यर्थः । खजोऽपवादः । 'धान्यानाम्' इत्यनुवृत्तेरिहापि षष्ठ्येव समर्थविभक्तिः । विभाषा तिल । तिल, माष, उमा, भङ्ग, अणु एभ्यो धान्यविशेषवाचिभ्यः षष्ठ्यन्तेभ्यो यद्वा स्यादित्यर्थः । 'उमाभगौ धान्यविशेषौ' इति भाष्यम् । 'उमा स्यादतसी तुमा'
धान्यानाम् । 'धिवि प्रीणने' इत्यस्मात् 'कृत्यल्युटो बहुलम्' इति कर्तरि ण्यत् । अस्मादेव निपातनादन्त्यस्य लोप इकारस्य चात्वम् । धिनोतीति धान्यम् । मन्त्रश्च धान्यमसि धिनुहि देवान्' इति दृश्यते । धान्यानामिति भवनापेक्षया कर्तरि षष्टी । सा च निर्देशादेव समर्थविभक्तिः । बहुवचनं तु खरूपविधिनिरासार्थम् । अलौकिके प्रक्रियावाक्ये तु षष्ठयन्तत्वानुवादेन तद्धितविधिसामर्थ्यादेवेति बोध्यम् । भवतिरिहोत्पत्तिवचनः क्षेत्रग्रहणसामर्थ्याद् । सूत्रे हि सत्तावचनस्यापि भवतेर्ग्रहणं मा भूदिति क्षेत्रग्रहणं कृतम् । अन्यथा 'धान्यानां भवनं कुसूलः' इत्यत्रापि स्यादिति । धान्यानां किम् , तृणानां भवनं क्षेत्रम् । व्रीहिशाल्योः । अत्रापि निर्देशादेव षष्ठी समर्थविभक्तिः । सा च भवनापेक्षया कर्तरीत्यादि पूर्ववत् । यवयवक । अत्र प्रत्ययार्थसामर्थ्याल्लभ्या षष्ठी समर्थविभक्तिः । विभाषा । खजि निये प्राप्ते वचनम् ।