________________
५३६ ]
सिद्धान्तकौमुदी। [तद्धितेषु भावकर्मार्थगार्गिकामवेतः । १८०० होत्राभ्यश्छः । (५-१-१३५) होत्राशब्दो ऋविग्याची स्त्रीलिङ्गः । बहुवचनाद्विशेषग्रहणम् । अच्छावाकस्य भावः कर्म वा अच्छावाकीयम् । मैत्रावरुणीयम् । १८०१ ब्रह्मणस्त्वः । (५-१-१३६) होत्रावाचिनो ब्रह्मन्शब्दावः स्यात् । छस्यापवादः । ब्रह्मत्वम् । नेति वाच्ये त्ववचनं तलो बाधनार्थम् । ब्राह्मणपर्यायाद् ब्रह्मन्शब्दात्तु स्वतलौ । ब्रह्मत्वम् , ब्रह्मता।
इति तद्धितेषु भावकर्माधिकारप्रकरणम् । अवगतवान्वेति । ज्ञातवानित्यर्थः । गार्गिकयेति । गार्यशब्दाद् बुनि 'आपत्यस्य-' इति यलोपे 'यस्येति च' इत्यकारलोपे लोकात् स्त्रीत्वे टापि 'प्रत्ययस्थात्-' इति इत्त्वे गार्गिकाशब्दः । काठिकया श्लाघत इति चरणादुदाहार्यम् । अत्र श्लाघादयः पदान्तरोपात्ता एव प्रत्ययान्वियिनः, नतु प्रत्ययवाच्या इति बोध्यम् । होत्राभ्यश्छः । ऋत्विग्वाचीति । याज्ञिकप्रसिद्धेरिति भावः । ऋत्विग्विशेषवाचिभ्यः षष्टयन्तेभ्यः छः स्याद्भावकर्मणोरित्यर्थः । अच्छावाकीयमिति । 'आ च त्वात्' इति त्वतलोरपि सर्वत्र समावेशो बोध्यः। ब्रह्मणस्त्वः। होत्राभ्य इत्यनुवृत्तमेकवचनेन विपरिणम्यते । तदाह होत्रावाचिनइति । ऋत्विग्वाचिन इत्यर्थः । ननु ब्रह्मणो नेत्येवास्तु । ब्रह्मणश्छो न इत्यर्थलाभे सति छ निषिद्धे आ च त्वादित्यधिकाराद् ‘होत्राभ्यश्छः' इत्येव भावकर्मणो. स्त्वप्रत्ययः लिध्यतीत्यत आह नेति वाच्य इति । तलो वाधनार्थमिति । अधिकारवशाद्धोत्राभ्य इति भावकर्मणोः प्राप्तस्य तलो निवृत्त्यर्थमित्यर्थः । एतेन 'तस्य भावस्त्वतलौ' इत्यनेन ब्रह्मणः कर्मणि त्वस्याप्राप्तेस्तदर्थं त्वप्रत्ययविधानमिति न शक्यम् , नापि ब्रह्मणो नेत्युक्ते पूर्वसूत्रविहितानां त्वतल्छानां निषेधः स्यादित्यपि शङ्कयम् , शब्दोपात्तस्य छस्यैव निषेधात् । अत्र होत्राग्रहणानुवृत्तेः प्रयोजनमाह--ब्राह्मणपर्यायादिति।
इति तद्धितेषु भावकर्माधिकारः । प्रसिद्धत्वादाह-अवगतवान्वेति । गार्गिकयेति । 'आपत्यस्य-' इति यलोपः । चरणाद् वुञ उदाहरणं तु काठिकया श्लाघत इत्यादि बोध्यम् । श्लाघादिष्विति किम् , गार्ग्यत्वम् । कठत्वम् । होत्राशब्द इति । जुहोतेनन् । नेति वाच्य इति । छप्रत्यये निषद्धे 'तस्य भावस्त्वतलौ' इत्यनेनैव त्वप्रत्ययः सिध्यति । विभक्तेरनुच्चारणाल्लाघवं च भवतीति भावः । 'होत्राभ्यः-' इत्यनुवृत्तेः फलं दर्शयति-ब्राह्मणपर्यायादिति । इति भावकर्मार्थकाः ।
इति तत्त्वबोधिन्यां नन प्रकरणम् ।