________________
प्रकरणम् ३६] बालमनोरमा-तत्त्वबोधिनीसहिता। [५३५ स्व्यञ् । १७६७ योपधाद गुरूपोत्तमाद् वुञ् । (५-१-१३२) रामणीयकम् । प्राभिधानीयकम् । 'सहायाद्वा' (वा ३०१४)। साहाय्यम् , साहायकम् । १७६८ द्वन्द्वमनोशादिभ्यश्च । (५-१-१३३) शैष्योपाध्यायिका । मानोज्ञकम् । १७६६ गोत्रचरणाच्छ्लाघात्याकारतदवेतेषु । (५-१-१३४) अत्याकारोऽधिक्षेपः । तदवेतः ते गोत्रचरणयोर्भावकर्मणी प्राप्तः अवगतवान्वा । गार्गिकया श्लाघते। गायत्वेन विकस्थत इत्यर्थः । गार्गिकया अत्याकुरुते । 'गुणवचन-' इति ध्यनं बाधित्वा अण्प्रसङ्गात् काव्यमिति कथमित्याक्षेपः । समाधत्ते कविशब्दस्येति । ब्राह्मणादित्वादित्यनन्तरं ष्यनि उपपाद्यमिति शेषः । योपधात् । योपधाद् गुरुपोत्तमात् प्रातिपदिकात् षष्ठयन्ताद्भावकर्मणोर्बुनित्यर्थः । रामणीयकमिति । रमणीयशब्दाद् वुञ् । आभिधानीयकमिति ।
अभिधानीयशब्दाद् वुञ् । सहायाद्वेति । बुधिति शेषः । पक्षे ब्राह्मणादित्वात् ध्यञ् । इदं तु वार्तिकं भाष्ये क्वचिन्मृग्यम् । द्वन्द्वमनोज्ञादिभ्यश्च । द्वन्द्वाद् मनोज्ञादिभ्यश्च षष्ठयन्तेभ्यो वुमित्यर्थः । शैष्योपाध्यायिकेति । शिष्यश्च उपाध्यायश्चेति द्वन्द्वाद् वुञ्। स्त्रीत्वं लोकात् । यद्यपि 'योपधात्' इत्येव सिध्यति तथापि गौपालपशुपालिकेत्युदाहरणं बोध्यम् । गोत्रचरणात् । गोत्रप्रत्ययान्तात् शाखाध्येतृवाचिनश्च षष्ठयन्ताद्भावकर्मणोर्बुञ् स्यात् श्लाघादिषु विषयेष्वित्यर्थः । अपत्याधिकारादन्यत्र प्रवराध्यायप्रसिद्धं गोत्रमित्युक्तम् । 'अत्याकार' इत्यस्य विवरणम् अधिक्षेप इति । तदवेत' इत्येतद्विवृणोति-ते गोत्रेति। तच्छब्देन गोत्रचरणयोः भावकर्मणी विवक्षिते । अवपूर्वादिणः प्राप्त्यर्थाद् ज्ञानार्थाद्वा कर्तरि क्तः । ते अवतस्तदवेत इति विग्रहः । 'द्वितीया' इति योगविभागात् समासः । 'ओरावश्यके' इति रूपसिद्धावपि कवेः कर्मेत्यर्थे कावमिति स्यादिति प्रश्नः । योपधात्। गुरु उपोत्तमं यस्य प्रातिपदिकस्य तस्मादित्यर्थः । योपधात्किम् , विमानत्वम् । गुरूपोत्तमादिति किम् , क्षत्रियत्वम् । आभिधानीयकमिति । अत्र प्रकृतिरभेः परोऽनीयरप्रत्ययान्तो दधातिः । श्रभिधानीयस्य भावः कर्म वेत्यर्थः । सहायाद्वेति । सूत्रेण नित्ये प्राप्ते विकल्पार्थ वचनम् । द्वन्द्वमनोशादिभ्यश्च । मनोज्ञ, प्रियरूप, बहुल, अवश्येत्यादिमनोज्ञादिः । गोत्रचरणात् । गोत्रवाचिनश्चरणवाचिनश्च प्रातिपदिकाद् वुञ् स्याद्भावकर्मणोः । अपत्याधिकारादन्यत्र लौकिकं गोत्रम् , तेनापत्यप्रत्ययान्तेभ्य इत्यर्थः । प्रवराध्याये ये पठितास्तेभ्य इत्यपरे । 'गोत्रं च चरणैः सह' इति जातित्वाद् 'प्राणभृजाति-' इत्यादिना अनि प्राप्त वचनम् । श्लाघेत्यादि । श्लाघादिषु विषयभूतेष्वित्यर्थः । प्राप्त इति । इणः प्राप्त्यर्थत्वात् । अपूर्वस्येणो ज्ञाने