________________
५३४ ] सिद्धान्तकौमुदी। [तद्धितेषु भावकर्मार्थत्रैहायनम् । यौवनम् । स्थाविरम् । 'श्रोत्रियस्य यत्नोपश्च' (वा ३०९३)। श्रौत्रम् । कुशलचपलनिपुणपिशुनकुतूहलक्षेत्रज्ञा युवादिषु ब्राह्मणादिषु च पठ्यन्ते । कौशल्यम्, कौशलमित्यादि । १७६६ इगन्ताञ्च लघुपूर्वात् । (५-१-१३१) शुचेर्भावः कर्म वा शौचम् । मौनम् । कथं काव्यम्-कविशब्दस्य ब्राह्मणादित्वालक्षणस्य अञोऽपवादः । एवं त्रैहायनमपि । यौवनमिति । अनिति प्रकृतिभावान टिलोपः। श्रोत्रियस्येति । वार्तिकमिदम् । श्रोत्रियशब्दात् षष्ठयन्ताद् भावकर्मणोः अण् , प्रकृतेर्यलोपश्चेत्यर्थः । 'य' इति संघातग्रहणम् । श्रौत्रमिति । छन्दोऽधीते इत्यर्थे छन्दश्शब्दाद् घप्रत्यये तस्य इयादेशे प्रकृतेः श्रोत्र इत्यादेशे 'यस्येति च' इत्यल्लोपे श्रोत्रियशब्दः । श्रोत्रियस्य भावः कर्म वेत्यर्थे श्रोत्रियशब्दादणि यकाराकारसंघातस्य लोपे रेफादिकारस्य 'यस्येति च' इति लोपे श्रौत्रमिति रूपम् । यकारादकारस्य 'यस्येति च' इति लोपे सति यकारमात्रस्यानेन लोपे तु रेफादिकारस्य यण स्यात् । नच तस्य 'यस्येति च' इति लोपः शङ्कयः, लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरिति न्यायात् । अकारलोपस्य स्थानिवत्त्वेन इकारान्तस्य भत्वाभावाच्च । 'श्रोत्रियस्य घलोपश्च' इत्येके पठन्ति । इगन्ताच्च । लघुः पूर्वोऽवयवो यस्येति विग्रहः । पूर्वत्वं च इगवधिकमेव गृह्यते, व्याख्यानात् । तथा च लघुपूर्वो य इक् तदन्तात्प्रातिपदिकात् षष्ठयन्ताद्भावकर्मणोरण स्यादित्यर्थः । गुणवचनेत्यादेरपवादः । कथं काव्यमिति । कविशब्दस्य लधुपूर्वेगन्तत्वाद् प्राप्तयोरण्विधानम् । युवस्थविरशब्दाभ्यां वयोवचनलक्षणे अनि प्राप्ते। यौवनमिति । अणि परतः 'अन्' इति प्रकृतिभावः । मनोज्ञादिपाठाद् वुअपि । यौवनकम् । 'प्रकृत्याऽके राजन्यमनुष्ययुवानः' इति प्रकृतिभावः । श्रोत्रियस्येति । श्रोत्रियंश्छन्दोऽधीते' इत्यत्र छान्दसः श्रोत्रभावः घंश्च प्रत्यय इति यदा व्याख्यानम् , तदेह 'घलोपः' इति यथाश्रुतम् । यदा तु 'वाक्यार्थे पदरचनम्' इति पक्षः, तदा घशब्देन इय इति रूपं लक्ष्यते । क्वचित्तु 'यलोपश्च' इति पाठः, तत्र येति संघातग्रहणं व्याख्येयम् । वर्णग्रहणे त्विकारस्य यणादेशः स्यान्न तु 'यस्येति च' इति लोपः । अकारलोपस्य स्थानिवत्त्वेन इकारान्तस्य भत्वाभावात् । एतच्च हरदत्तग्रन्थे स्पष्टम् । मूलपुस्तकेषु 'यलोपः' इति मुख्यपाठ एव प्रायेण दृश्यते, न तु घलोप इति पाठः । इगन्ताच्च । लघुः पूर्वोऽवयवो यस्येति प्रातिपदिकविशेषणम् । पूर्वत्वं च संनिधानदिगवधिकमेव । तेनातिपाण्डशब्दान्न भवति । 'लघुपूर्वेकः' इत्येव सुवचम् । लघुपूर्वश्वासौ इक् च लघुपूर्वेक् तस्य प्रातिपदिकविशेषणात्तदन्तलाम इति नव्याः । इगन्तात्किम् , घटत्वम् । लघुपूर्वात्किम् , पाण्डुत्वम् । कथं काव्यमिति । कुधातोः