________________
प्रकरणम् ३६] बालमनोरमा तत्त्वबोधिनीसहिता। [५३३ (ग सू १०६) राजन्शब्दोऽसमासे यकं लभत इत्यर्थः । राज्ञो भावः कर्म वा राज्यम् । समासे तु ब्राह्मणादित्वात्ष्यञ् , प्राधिराज्यम् । १७६४ प्राणभृज्जा. तिवयोवचनोगात्रादिभ्योऽञ् । (५-१-१२६ ) प्राणभृजाति-श्राश्वम् । प्रौष्ट्रम् । वयोवचन-कौमारम् , कैशोरम् , प्रौद्गात्रम् । श्रीनेत्रम् । सौष्ठवम् । दौष्ठवम् । १७६५ हायनान्तयुवादिभ्योऽण् । (५-१-१३०) द्वैहायनम् । न्तेभ्यो भावकर्मणोर्यक् स्यादित्यर्थः । राजासे इति । पुरोहितादिगणसूत्रमिदम् । राजा असे इति च्छेदः । स इति समासस्य प्राचां संज्ञा । तदाह-राजन्शब्द इति । राज्यमिति । यकि टिलोपः। 'ये चाभावकर्मणोः' इति प्रकृतिभावस्तु न, अभावकर्मणोरिति पर्युदासात् । समासे त्विति । अधिको राजा अधिराजः प्रादिसमासः। असे इति पर्युदासाद्यगभावे ब्राह्मणादित्वात् ष्यनि आधिराज्यमिति रूपमित्यर्थः । यध्योः स्वरे विशेषः । प्राणभृजाति । प्राणभृतः-प्राणिनः, तजातिवाचिभ्यो वयोविशेषवाचिभ्य उद्गात्रादिभ्यश्च षष्ठयन्तेभ्यो भावकमणोः अजित्यर्थः । प्राणभृजातीति उदाहरणसूचनम् । एवं वयोवचनेति । हायनान्त । हायनान्तेभ्यो युवादिभ्यश्च षष्ठयन्तेभ्यो भावकर्मणोः अण स्यादित्यर्थः । द्वैहायनमिति । द्विहायनस्य भावः कर्म वेति विग्रहः । वयोवचन'पत्यन्तपुरोहितादिभ्यः- 'द्वन्द्वमनोज्ञादिभ्यः-' इत्यत्रापि बोध्यम् । ब्राह्मणादित्वादिति । यद्यपि ब्राह्मणादिषु राजन्शब्दः केवलः पठितः, तथाप्ययमेव 'असे' इति प्रतिषेधो ज्ञापयति 'अस्त्यत्र प्रकरणे राजन्शब्देन तदन्तविधिः' इति। एवं च ब्राह्मणादिपाठस्य समासे चरितार्थत्वादसमासे विशेषविहितो यगेव भवति । अन्ये तु ब्राह्मणादेराकृतिगणत्वादेव तदन्तात् कथंचित्ष्यत्रि सिद्ध राजन्शब्दस्य तत्र पाठो यका सह समावेशार्थ इति । तथा चावेष्टयधिकरणे शाबरभाष्ये उक्तं 'राज्ञः कर्म राज्यं ब्राह्मणादित्वात् व्यञ्' इति । पुरोहित, संग्रामिक, पथिक, सारथिकेत्यादयः पुरोहितादयः । प्राणभृजाति । मुखनासासंचारी वायुः प्राणः । 'प्राणिजाति-' इत्येव सुवचम् । प्राणभृदिति किम् , तृणत्वम् , तृणता । जातीति किम् , देवदत्तत्वम् । औद्गात्रमिति । उद्गात्रादिषु ये ऋत्विग्वचनास्तेभ्यो 'होत्राभ्यश्छः' इति छे प्राप्ते अञ् विधीयते । सुष्ठु दुष्ठु द्वाभ्यां गुणलक्षणे व्यनि प्राप्त, वधूशब्दादिगन्तलक्षणेऽणि, शेषेभ्यस्त्वतलोः प्राप्तयोः । इह तु 'सुभगं मन्त्रे' पठ्यते । सुभगमित्येतच्छब्दरूपं मन्त्रविषये प्रयोगे अञमुत्पादयतीत्यर्थः । 'महते सौभगाय' । सर्वविधीनां छन्दसि वैकल्पिकत्वादिह 'हृद्भगसिन्ध्वन्ते-' इत्युत्तरपदवृद्धिर्न भवति। अतएव मन्त्रेऽपि कचिदञ् न भवति । 'सौभाग्यमस्यै दत्त्वाय' इह ष्यञ् । हायनान्त। अस्मात्त्वतलोः
HTTHLEH