________________
५३२ ]
सिद्धान्तकौमुदी। [तद्धितेषु भावकर्मार्थ'खेनात्' इति योग विभज्य स्तैन्यमिति ष्यमन्तमपि केचिदिच्छन्ति । १७६१ सख्युर्यः । (५-१-१२६ ) सख्युभावः कर्म वा सख्यम् । 'दूतवणिग्भ्यां च' दूतस्य भावः कर्म वा दूत्यम् । 'वणिज्यम्' इति काशिका । माधवस्तु 'वणिज्याशब्दः स्वभावात्स्त्रीलिङ्गः । भाव एव चात्र प्रत्ययो न तु कर्मणि' इत्याह । भाष्ये तु 'दूतवणिग्भ्यां च' इति नास्त्येव । ब्राह्मणादित्वाद्वाणिज्यमपि। १७६२ कपिज्ञात्योर्डक् । (५-१-१२७ ) कापेयम् । ज्ञातेयम् । १७६३ पत्यन्तपुरोहितादिभ्यो यक् । (५-१-१२८) सैनापत्यम् । पौरोहित्यम् । 'राजासे' नकारमात्रलोपेऽपि 'यस्येति च' इत्यकारलोपात् स्तेयमिति सिध्यतीति वाच्यम् , 'अचः परस्मिन्-' इत्यकारलोपस्य स्थानिवत्त्वेन तमाश्रित्य एकारस्य अयादेशप्रसङ्गात् । नच संघातग्रहणेऽपि 'अलोऽन्त्यस्य' इत्यकारस्यैव लोपः स्यादिति शङ्कयम् , 'यस्येति च' इत्येव अकारस्य लोपसिद्धाविह नलोपविधिवैयर्थ्यात् , 'नानर्थकेऽलोऽन्त्यविधिः-' इति निषेधाच्च । योगं विभज्येति । 'स्तनात्' इति पृथक् सूत्रम् । 'ध्यञ्' इत्यनुवर्तते। स्तेनशब्दाद्भावे कर्मणि च प्यनित्यर्थः । समासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसंख्यासंज्ञाशब्दभिन्नमर्थवच्छब्दरूपं गुणवचनसंज्ञकं भवतीति
आकडारसूत्रभाष्यरीत्या स्तेनशब्स्य पचाद्यजन्तस्य कृदन्तस्य गुणवचनत्वाभावादप्राप्ताविदं वचनम् । अव्युत्पन्न प्रातिपदिकतया गुणवचनत्वेऽपि यत्प्रत्ययेनापवादेन पक्षे समावेशार्थ वचनम् । ततो 'यन्नलोपश्च' इति योगान्तरम् । 'स्तेनात्' इत्यनुवृत्तावुक्लोऽर्थः । केचिदिति । भाष्यादृष्टत्वाद् योगविभागोऽयमप्रामाणिक इति भावः । सख्युर्यः । सखिशब्दात् षष्ट्यन्ताद् भावकर्मणोः यः स्यादित्यर्थः । दूतवणिग्भ्यां चेति । वार्तिकमिदम् । आभ्यामपि षष्टयन्ताभ्यां भावकर्मणोः यः स्यादिति वक्तव्यमित्यर्थः । नास्त्येवेति । वार्तिकत्वे तस्य भाष्ये पाठावश्यकत्वात् पाठस्य चाभावादप्रामाणिकमेवेदं वृत्तिपठितं वार्तिकमिति भावः । तर्हि दूतवणिग्भ्यां भावकर्मणोः कथं यप्रत्यय इत्याशङ्कय नास्त्येव यप्रत्ययः, किंतु व्यञवेत्याह ब्राह्मणा. दित्वाद्वाणिज्यमपीति । अपिना दौत्यसंग्रहः । कपिज्ञात्योर्डक् । पञ्चम्यर्थे षष्टी । श्राभ्यां षष्ठयन्ताभ्यां भावकमणोः ढगित्यर्थः । अत्र कपिज्ञात्योः भावकर्मणोश्च न यथासंख्यम् , व्याख्यानात् । पत्यन्त । पत्यन्तेभ्यः पुरोहितादिभ्यश्च षष्ठयइत्यल्लोपस्य स्थानिवद्भावादयादेशप्रसङ्गादिति भावः । ननु संघातग्रहणेऽपि 'अलोऽन्त्यस्य' इत्याकारस्यैव लोपः स्यान्न तु संघातग्रहणस्येति चेत् । मैवम् , अारम्भसामर्थ्याद् 'नानर्थकेऽलोन्त्यविधिः-' इति निषेधाद्वा तत्सिद्धेः । कपिज्ञात्योः । इह कपिज्ञाती द्वौ, भावकर्मणी अर्थावपि द्वौ, तयोर्यथासंख्यं न भवत्यस्खरितत्वप्रतिज्ञानात् । एवं