________________
प्रकरणम् ३६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५३१ तथ्यम् । प्रायथापुर्यम् ,अयाथापुर्यम् ,पापादसमातेर्भावकर्माधिकारः। 'चतुर्वर्णादीनां स्वार्थे उपसंख्यानम्' (वा ३०६१)। चत्वारो वर्णाश्चातुर्वर्ण्यम्। चातुराश्रम्यम् । त्रैस्वर्यम् । षाड्गुण्यम् । सैन्यम् । सानिध्यम् । सामीप्यम् । औपम्यम् । त्रैलो. क्यम् इत्यादि । सर्वे वेदाः सर्ववेदास्तानधीते सर्ववेदः । 'सर्वादेः-' (वा२७४८) इति लुक् । स एव सार्ववेद्यः । 'चतुर्वेदस्योभयपदवृद्धिश्च' (ग सू १३)। चतुरो वेदानधीते चतुर्वेदः । स एव चातुर्वैद्यः । चतुर्विद्यस्य इति पाठान्तरम् । चतुर्विद्य एव चातुर्वैधः । १७६० स्तेनाद्यन्नलोपश्च । (५-१-१२५) 'न' इति सङ्घातग्रहणम् । 'स्तेन चौर्ये' पचाद्यच् । स्तेनस्य भावः कर्म वा स्तेयम् । पायथातथ्यमिति । यथातथेति निपातनात् ष्यत्रि पूर्वपदस्यादिवृद्धिः । अयाथातथ्यमिति । उत्तरपदस्यादिवृद्धिः। आयथापुर्यमिति । यथापुरशब्दात् ष्यनि पूर्वपदस्यादिवृद्धिः। अयाथापुर्यमिति । उत्तपदस्यादिवृद्धिः। आपाद. समाप्तरिति । अत्र व्याख्यानमेव शरणम् । चतुर्वर्णादीनामिति । चतुर्वर्णादिभ्यः स्वार्थे प्या उपसंख्यानमित्यर्थः। सववदा इति । 'पूर्वकाल-' इति समासः । लुगिति । अध्येतृप्रत्ययस्येति शेषः । स एव सार्ववैद्य इति । सर्ववेदशब्दात् स्वार्थे व्यमिति भावः । चतुर्वेदस्येति । वार्तिकमिदम् । ष्यनिति शेषः । चतुर्वेद इति । 'तद्धितार्थ-' इति द्विगुः । ततोऽध्येतृप्रत्ययस्याणो 'द्विगोल्गनपत्ये' इति लुक् । चतुर्विद्यस्येतीति । 'चतुर्वेदस्योभयपदवृद्धिश्च' इति वार्तिके 'चतुर्वेदस्य' इत्यस्य स्थाने 'चतुर्विद्यस्य' इति केचित्पठन्तीत्यर्थः। चतस्रो विद्याः अधीते इत्यर्थे 'तद्धितार्थ-' इति द्विगौ 'विद्यालक्षणकल्पान्ताच्च' इति ठकि 'द्विगो गन. पत्ये' इति तस्य लुकि चतुर्विद्यशब्दात् स्वार्थे व्यनि उभयपदवृद्धौ चातुवैद्य इति रूपमिति भावः । स्तनाद्यन्नलोपश्च । यदिति च्छेदः । स्तेनशब्दात् षष्ठ्यन्ताद् भावे कर्मणि चाथै यत्स्यादित्यर्थः। नेति सङ्घातग्रहणमिति । नलोपश्चेत्यत्र नेत्यकार उच्चारणार्थो न भवति । किंतु नकाराकारसंघातग्रहणमित्यर्थः। स्तेयमिति । स्तेनशब्दाद् यत्प्रत्यये सति नेति संघातस्य लोप इति भावः । नच प्रयोगः-'आन्यभाव्यं तु कालशब्दव्यवायाद्' इति । अन्यभाव एव आन्यभाव्यम् । अन्यत्वमित्यर्थः । यत्तु व्याकरणाधिकरणे भट्टपादैरुक्तम् 'अान्यभाव्यमप्रयोगः' इति, तत्त्ववैयाकरणमीमांसकसंतोषार्थमित्यवधेयम् । सर्ववेदा इति । 'पूर्वकालैक-' इति समासः । चतुर्वेद इति । तद्धितार्थे द्विगुः । 'द्विगोलुंगनपत्ये' इत्यणो लुक् । चतुर्विद्य इति । 'विद्यालक्षणसूत्रान्ताक्' । तस्य लुक् । संघातग्रहणमिति । वर्णग्रहणे तु 'यस्येति च' इत्यकारलोपे सतीष्टं न सिध्यति । 'अचः परिस्मिन्-'