________________
५३० ] सिद्धान्तकौमुदी। [तद्धितेषु भावकर्मार्थकर्मणि च । (५-१-१२४ ) चाद्भावे । जडस्य कर्म भावो वा जाड्यम् । मूढस्य भावः कर्म वा मौढ्यम् । ब्राह्मण्यम् । 'अर्हतो नुम् च' (वा ३०१२) अर्हतो भावः कर्म वा पार्हन्त्यम् , आर्हन्ती । ब्राह्मणादिराकृतिगणः। १७८६ यथातथायथापुरयोः पर्यायेण । (७-३-३१) नमः परयोरेतयोः पूर्वोत्तरपदयोः पर्यायेणादेरचो वृद्धिर्शिदादौ । अयथातथाभाव प्रायथातथ्यम् , अयाथाषित्त्वप्रयोजनकथनमिति बोध्यम् । याथाकामीति । काममनतिक्रम्य यथाकामम् । ततः स्वार्थे चतुर्वर्णादित्वात् ष्यनि लोकात् स्त्रीत्वं षित्त्वाद् ङीष् । गुणवचन । गुणोपसर्जनद्रव्यवाचिभ्यो ब्राह्मणादिभ्यश्च षष्ठ्यन्तेभ्यो भावे कर्मणि च अर्थे व्यजि. त्यर्थः । अर्हतो नुम्चेति । वार्तिकमिदम् । 'अर्हः प्रशंसायाम्' इति सूत्रेण शतरि अर्हच्छब्दः पूज्यवाचीति कैयटः । अर्हच्छब्दात् ष्यञ् स्यात्प्रकृतेर्नुम् चेत्यर्थः । मित्त्वादन्त्यादचः परः । अनुस्वारपरसवर्णौ । लोकाद् नपुंसकत्वं स्त्रीत्वं च। तदाह आहे. न्त्यमार्हन्तीति । आर्हन्त्यशब्दाद् डीषि 'हलस्तद्धितस्य' इति यलोपः । यथातथेति निपातसमुदायः। यथापुरमिति पुराशब्देन पदार्थानतिवृत्तावव्ययीभावः । इमौ शब्दौ नपूर्वपदौ ब्राह्मणादी । तयोः ष्यनि अादिवृद्धौ विशेषमाह यथातथायथापुरयोः पर्यायेण । आदिवृद्धिप्रकरणे उत्तरपदस्य पूर्वस्य चेत्यधिकारे इदं सूत्रम् । 'नमः शुचि-' इत्यतो 'नञः' इत्यनुवर्तते, तदाह नञः परयोरेतयोरिति । यथातथा यथापुर इत्यनयोरित्यर्थः । पर्यायेणेति । कदाचित्पूर्वपदस्य कदाचिदुत्तरपदस्येत्यर्थः। यलोपः । एवं यथाकामी । दृढ, वृढ, परिवृढ, भृश, कृश, इत्यादि। अत्र द्वे गणसूत्रे'वेर्यातलाभमतिमनःशारदानाम्' । विशब्दादुत्तरे ये यातादयः पञ्च तदन्तानां समासानामनन्तरः ष्यञ् भवतीत्यर्थः । वियातत्वम् , वियातता, वियातिमा, वैयात्यम् । विलाभिमा, वैलाभ्यम् । विमतिमा, वैमत्यम् । इगन्तत्वादणपि-वैमतम् । विमनिमा, वैमनस्यम् । विशारदिमा, वैशारद्यम् । त्वतलोः समावेशेन विलाभत्वम् , विलाभतेत्यादी. न्यप्यूह्यानि । समो मतिमनसोः। समः परे ये मतिमनसी तदन्तयोः समासयोर. नन्तरः ध्यञ् भवतीत्यर्थः । संमतित्वम् , संमतिता, संमतिमा, सांमत्यम् । इगन्तत्वादणि-सांमतम् । संमनस्त्वम् । संमनस्ता । संमनिमा। सामनभ्यम् । गुणवचन । ध्यअनुवर्तते, कर्म क्रिया कार्य च । 'शरीरायासमात्रसाध्यं शौचादि क्रिया । शास्त्रेण विहितो यागादिः कार्यम्' इति तयोर्भेदमाहुः । अर्हत इति । 'अर्हः प्रशंसायाम्' इति शत्रन्तोऽर्हच्छब्दः पूजार्थाभिधायीति कैयटः । प्राकृतिगण इति । केषांचित्पाठस्तु कार्यान्तराय । तथा हि-'अर्हतो नुम् च' इति नुमर्थः पाठः । एकभावः, त्रिभावः, अन्यभावः, एषां पाठः खार्थे विधानार्थः । तथा च प्रत्याहारातिके वार्तिके