________________
प्रकरणम् ३६ ] बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ५२६
वेशार्थम् । १७८५ र ऋतो हलादेर्लघोः । ( ६-४-१६१) हलादेर्लघोऋकारस्य रः स्याद् इष्ठेमेयस्तु । १७८६ टेः । ( ६-४-१५५ ) भस्य टेर्लोपः स्यादिष्ठेमेयस्सु । पृथोर्भावः प्रथिमा, पार्थवम् । म्रदिमा, मार्दवम् । १७८७ वर्णदृढादिभ्यः ष्यञ्च । ( ५-१-१२३ ) चादिमनिच् । शौक्ल्यम्, शुक्तिमा । दाढर्यम् | 'पृथुमृदुभृशकृशदृढपरिवृढानामेव रत्वम्' (वा ४२११ ) | द्रढिमा | षो ङीषर्थः । श्रौचिती । याथाकामी । १७८८ गुणवचनब्राह्मणादिभ्यः षष्ठ्या वा' इति सूत्रभाष्ये सिद्धान्तितत्वादिमनिच्वतलामभावे तेषां प्रवृत्तिर्न स्यादिति भावः । र ऋतो हलादेः । र इति प्रथमान्तम् । इष्ठेमेयस्स्विति शेषपूरणम् । 'तुरिष्ठेमेयस्सु' इत्यतः तदनुवृत्तेरिति भावः । 'अङ्गस्य' इत्यधिकृतं हलादेरङ्गस्य लघोः ऋकारस्य र इति रेफाकारसंघात श्रादेशः स्याद् इष्टनि इमनि ईयसि च परे इत्यर्थः । टेः। ‘इष्ठेमेयस्सु' इत्यनुवर्तते । 'अल्लोपोऽनः' इत्यतो लोप इति च, तदाह टेर्लोपः स्यादिष्ठेमेयस्स्विति । प्रथिमेति । पृथुशब्दादिमनिच्, चकार इत्, नकारादिकार उच्चारणार्थः 1 ऋकारस्य रः, उकारस्य गुणं बाधित्वा टेर्लोपः। पार्थवमिति । इमनिजभावे 'इगन्ताच्च लघुपूर्वात् इत्यण् । म्रदिमेति । मृदुशब्दादिमनिचि ऋकारस्य रः, 'टेः' इति टिलोपश्च । मार्दवमिति । 'इगन्ताच्च -' इत्यण् । वर्णदृढादिभ्यः ष्यञ्च । षष्ठ्यन्तेभ्यो वर्णवाचिभ्यो दृढादिभ्यश्च भावे ष्यञ् च स्यादित्यर्थः । गुणवचनत्वादेव ष्यञ सिद्धे इमनिच्समुच्चयार्थं वचनम् । 'पृथुं मृदुं भृशं चैव कृशं च दृढमेव च । परिपूर्वं वृढं चैव षडेतान् रविधौ स्मरेत्' इति वार्तिकमर्थतः सङ्ग्रह्णाति पृथुमृदुभृशेत्यादि । तेन कृतयतीत्यादाविष्ठवत्त्वेऽपि रभावो न । द्रढिमेति ।
शब्दादिमनिचि ऋकारस्य रः । भ्रशिमा ऋशिमा द्रढिमा परिव्रढिमा । ननु वर्णदृढादीनां व्ययन्तानां लोकतो नपुंसकत्वात् ष्यञः षित्त्वस्य किं प्रयोजनमित्यत आह षो ङीषर्थ इति । श्रचितीति । उचितशब्दाद् ब्राह्मणादित्वात् ष्यनि लोकात् स्त्रीत्वम् । षित्त्वाद् द्वीषि 'हलस्तद्धितस्य' इति यलोपः । उचितस्तु न दृढादिः, तद्गणे प्रदर्शनाद् इमनिच्प्रसङ्गाच्च । अस्यैव ष्यञ उत्तरसूत्रे अनुवृत्तेरिहैव तस्य
1
इति बोध्यम् । त्वतलौ तु पूर्वसूत्रेणैव लब्धौ । र ऋतो । हलादेः किम्, ऋजिष्ठः । ऋजीयान्, लघोः किम्, कृष्णिमा | 'पृथुमृदुभृश -' इति परिगणने तु 'हलादेर्लघोः’ इति त्यक्तुं शक्यम् । वर्णदृढादिभ्यः । गुणवचनत्वादेव सिद्धे इमनिजर्थं वचनम् । 'पृथुभृदुभृश -' इति परिगणनादिह रभावो न भवति । कृतमाचष्टे कृतयति । णाविष्ठ - वद्भावः । श्रचितीति । ब्राह्मणादेराकृतिगणत्वात् ष्यञ् । 'इलस्तद्धितस्य' इति