________________
४२८]
सिद्धान्तकौमुदी। [तद्धितषु भावकर्मार्थाःनपूर्वात्तत्पुरुषादचतुरसङ्गतलवणवटयुधकतरसलसेभ्यः । (५-१-१२१) इतः परं ये भावप्रत्ययास्ते नन्तत्पुरुषान स्युश्चतुरादीन्वर्जयित्वा । अपतित्वम् । अपटुत्वम् । नम्पूर्वात् किम्-बार्हस्पत्यम् । तत्पुरुषात् किम्-नास्य पटवः सन्तीस्यपटुः, तस्य भाव आपटवम् । प्रचतुर इति किम्-वाचतुर्यम् । श्रासङ्गत्यम् । मालवण्यम् । श्रावट्यम् । प्रायुध्यम् । श्राकत्यम् । पारस्यम् । श्रालस्यम् । १७८४ पृथ्वादिभ्य इमनिज्वा । (५-१-१२२) वावचनमणादिसमापाठात् । न नपूर्वात् । इतः परमिति । त्वतल्विधेर्ध्वमित्यर्थः, 'नपूर्वाद् इत्युत्तरस्य प्रतिषेधः' इति भाष्यादिति भावः । चतुरादीनिति । चतुर, संगत, लवण, वट, युध, कत, रस, लस एतान् वर्जयित्वेत्यर्थः । अपतित्वमिति । इह 'पत्यन्तपुरोहितादिभ्यः' इति यक् न भवति । अपटुत्वमिति । इह 'इगन्ताच्च लघुपूर्वात्' इत्यण न भवति । बार्हस्पत्यमिति । 'पत्यन्तपुरोहितादिभ्यः' इति यक् । आपटवमिति । 'इगन्ताच्च लघुपूर्वात्' इत्ला । अपटुशब्दस्य बहुव्रीहित्वात्तत्पुरुषत्वाभावान्नास्याणो निषेध इति भावः । आचतुर्यमिति । अचतुरस्य नावः, ब्राह्मणादित्वात्म्यञ् । आसंगत्यमिति । असंगतशब्दात् ष्यञ् । पालवण्यमिति । अलवणशब्दात् ध्यञ्। श्रावट्यमिनि । न वटः अवटः, तस्मात् ष्यञ् । प्रायुध्यमिति । अयुधशब्दात् ध्यञ् आकत्यमिति । अकतशब्दात् ष्यञ् । पारस्यमिति । अरसशब्दात् व्यञ् । आलस्यमिति । लसतीति लसः, न लसः अलसः, तस्मात् ध्यञ्। पृथ्वादिभ्य इमनिज्वा । 'तस्य भावः' इत्यनुवर्तते । पृथ्वादिभ्यः षष्ठ्यन्तेभ्यो भावे इमनिज् वा स्यादित्यर्थः । ननु 'वा' ग्रहणं व्यर्थम् , 'समर्थानां प्रथमाद्वा' इति महाविभाषयैव वाक्यस्य सिद्धत्वात् । नच इमनिजभावे त्वतल्प्रत्ययार्थ वाग्रहणमिति वाच्यम् , श्रा च त्वादित्येव तत्समावेशसिद्धरित्यत आह-वावचनमणादिसमावेशार्थमिति । पृथुमृदुप्रभृतिषु 'इगन्ताच्च लघुपूर्वात्' इत्यणः, चण्डखण्डादिषु गुणवचनलक्षणष्यञः, बालवत्सादिषु वयोवचनलक्षणस्य भञश्च औत्सर्गिकस्य समावेशार्थमित्यर्थः । अन्यथा महाविभाषावशाद् 'अपवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते' इति 'पारे मध्ये खयि-' इति रुत्वम् । पाक्षिकावनुनासिकानुस्वारी, विसणे कृते सत्वम् । अपतित्वमिति । इह 'पत्यन्त-' इति यग् न भवति । अपटुत्वमिति । इह तु 'इगन्ताच लघुपूर्वात्' इत्यण न भवति । आचतुर्यमित्यादि । ब्राह्मणादित्वात् घ्यञ् । पृथ्वादिभ्यः । अणादीति । इगन्तलघुपूर्वेषु पृथुमृदुप्रभृतिष्वणः समावेशः । चण्डखण्डादिषु गुणवचनेषु ष्यमः । बालवत्सादिषु वयोवचनलक्षणस्यात्र