________________
प्रकरणम् ३६ ] बालमनोरमा-तत्ववोधिनीसहिता। [४२७ 'तलन्तं स्त्रियाम्' (लि १७)। १७८२ श्रा च त्वात् । (५-१-१२०) 'ब्रह्मणस्वः-'इत्यतः प्राक्त्वतलावधिक्रियते । अपवादः सह समावेशार्थम् । गुणवचनादिभ्यः कर्मणि विधानार्थ चेदम् । चकारो नम्सम्भ्यामपि समावेशार्थः । स्त्रिया भावः णम्, सीत्वम्, सीता । पोस्नम्, पुंस्त्वम् , पुंस्ता । १७८३ न तदिदं शब्दप्रवृत्तिनिमित्तं भावशब्देन विवक्षितमिति भाष्यकैयटयोः स्थितम् । गोर्भाव इति । गोशब्दस्य प्रवृत्तिनिमित्तमिति बोधः । त्वान्तं क्लीवं तलन्तं स्त्रियाम् इति । लिङ्गानुशासनसूत्रसिद्धमिदम् । प्रा च त्वात् । 'त्वतलौ' इत्यनुवर्तते । आङ्मर्यादायाम् , तदाह ब्रह्मणस्त्व इत्यतः प्रागिति । ननु 'तस्य भावस्त्वतलौ इत्यतः त्वतलोरुत्तरसूत्रेष्वनुवृत्त्यैव सिद्धरधिकारोऽयं व्यर्थ इत्यत आह अपवादरिति । 'पृथ्वादिभ्य इमनिज्वा' इत्यादिविहितैरिमनिजादिभिरपवादैः समुच्चयार्थमित्यर्थः । असति त्वेतस्मिन्नधिकारसूत्रे उत्तरत्र इमनिजादिविधिषु त्वतलोरनुपस्थितिः स्यात् । प्रत्यक्षनिर्दिष्टरिमनिजादिविशेषैः शान्ताकाङ्क्षत्वात् । अन्यथा 'प्राग्दीव्यतोऽण' इत्यधिकृतस्य अणः 'अत इञ्' इत्यादा. वपि प्रवृत्तिः स्यादिति भावः । प्रयोजननान्तरमाह गुणवचनादिभ्य इति । अन्यथा भावेऽर्थे सावकाशयोस्त्वतलोः कर्मण्यर्थे गुणवचनादिभ्यो विशेषविहितेन ष्यमा बाधप्रसङ्ग इति भावः । नन्वेवमपि श्रात्वादित्येवास्तु, स्वरितत्वादेव पूर्वसूत्रादिह त्वतलोरनुवृत्तिसिद्धेस्तदनुकर्षार्थश्चकारो व्यर्थ इत्यत आह-चकार इति । अन्यथा त्वतलौ स्त्रीपुंसाभ्यां न स्याताम् , अन्यत्र तयोः सावकाशत्वादिति भावः । पौंस्नमिति। संयोगान्तलोपे 'पुमः खय्यम्परे' इति रुत्वम् । पाक्षिकावनुनासिकानुखारौ, विसर्गे कृते सत्वम् । एवं पुंस्त्वम् । तत्र 'ह्रस्वात्तादौ-' इति षत्वं तु न भवति, सवनादिषु मित्यत्र द्रव्यत्वपृथिवीत्वादेरभानात् । गोर्भाव इति । इह गोशब्दोऽर्थपरः, शब्द. खरूपपरो वेति पक्षद्वयम् । यदार्थपरः, तदा धर्मविशेषः प्रत्ययार्थः, स च धर्मत्वेनैव भासते । प्रकृतिजन्येत्यादिस्तु प्रयोगोपाधिः । यदा तु शब्दपरस्तदा तज्जन्यबोधप्रकारः प्रत्ययार्थः, । स च धर्मविशेष एव । पाचकत्वमित्यंत्र तु कर्तृत्वरूपसम्बन्धः प्रकारः। पच्यमानत्वमित्यत्र तु कर्मत्वरूपसम्बन्धः । तथा औपगवत्वमित्यत्र जन्यत्वरूपसम्बन्धः प्रकारः । राजपुरुषत्वमित्यत्र तु खत्वरूपसम्बन्ध इत्यायूह्यम् । एवं स्थिते हरिटीकायो यदुक्तं 'कृत्तद्धितसमासेभ्यः सम्बन्धाभिधानं भावप्रत्ययेन' इति, तत्र नापूर्व शक्त्यन्तरं कल्प्यम् । उक्तरीत्यैव तत्राप्युपपत्तेरिति संक्षेपः । अपवादैः सहेति । 'पृथ्वादिभ्य इमनिज्वा' इत्यादिभिः । चकार इति । अन्यथा त्वतलौ स्त्रीपुंसाभ्यां न स्याताम् , अन्यत्र तयोः सावकाशत्वादिति भावः । पौत्रं पुंस्त्वमिति । संयोगान्तलोपे 'पुमः