SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ३८ ] बालमनोरमात्तत्त्वबोधिनीसहिता। [५७५ ठनौ न । 'वातदन्तबलललाटानामूङ् च' (ग सू १११)। वातूलः । १६०५ वत्सांसाभ्यां कामबले । (५-२-६८)माभ्यां नच् स्यायथासङ्गाय कामवति बलवति चार्थे । वस्सनः। अंसलः । १६०६ फेनादिलच्च । (५-२-६९) चाल्लच । अन्यतरस्यांग्रहणं मतुप्समुच्चयार्थमनुवर्तते। फेनिलः, फेनलः, फेनवान् । पठिताः। एवं च लज्वा स्यादिति विवरणवाक्ये वाशब्दश्चार्थे । इदमन्यतरस्यां प्रहणमुत्तरसूत्रेषु सर्वत्र मत्वर्थीयविधिष्वनुवर्तते, नेतु रूढशब्दषु । अतो न तेषु मतुप्समुच्चय इत्यास्तां तावत् । वातदन्तबलललाटानामू चेति । सिध्मादिगणसूत्रमिदम् । एभ्यो लच् प्रकृतेरूङ् चादेशः। कारस्तु श्रादेशत्वसूचनार्थः । अन्यथा प्रत्ययत्वशका स्यात् । वातूलः, एवं दन्तूलः, बलूलः, ललाटूलः । वत्सांसाभ्यां कामबले। लच् स्यादिति । मत्वर्थे इति शेषः । कामबलशब्दौ तद्वति लाक्षणिकावित्यभिप्रेत्याह कामवति बलवति चेति । फेनादि. लच्च । मत्वर्थे इति शेषः। चाल्लजिति । संनिहितत्वादिति भावः । नन्वेवं सति मतुब् नैव स्यादित्यत आह अन्यतरस्यांग्रहणमिति । सिध्मादिसूत्रे तेन । क्रियमाणं तु पूर्वस्यान्यतरस्यांग्रहणस्य समुच्चयार्थता ज्ञापयत्येव । तथा च वार्तिकम्-'लजन्यतरस्यामिति समुच्चयः' इति । अयं भाव:-'प्राणिस्थात्-' इति सूत्रेण लचि विकल्पिते पक्षे मतुबिति चूडालश्चूडावानिति रूपद्वयं यद्यपि सिध्यति तथापि सिध्मादिषु येऽदन्तास्तेषु इनिठनोः प्रवृत्त्या दोषः । समुच्चयार्थत्वे तु न दोष इति । एव च 'लज्वा स्यात्' इति वृत्तौ वाशब्दः समुच्चये बोध्यः । 'वा स्याद्विकल्पो. पमयोरेवार्थेऽपि समुच्चये इत्यमरः । वातदन्तेत्यादि । सिध्माद्यन्तर्गणसूत्रम् । ऊङ् चेति । ङिस्वादन्तादेशः। ऊकारमात्रोकावन्तादेशत्वसिद्धावपि प्रत्ययत्वशङ्कानिवारणाय अनुबन्धः कृतः । न च षष्ठपन्ताद्विहितस्य प्रत्ययत्वं जति शङ्कयम् । 'अहंशुभमोर्युस्' 'गोपयसोर्यत्' इत्यादौ प्रत्ययत्वाभ्युपगमात् । वातूल इति । अन्तोदात्तमिदम् । प्राचा तु 'बलादूलः' 'वाताच' इति पठित्वा वातुल इत्युक्तम् । तदुपेक्ष्यम् , अन्त्यस्वरेण मध्योदात्तत्वप्रसङ्गात् । गणसूत्रबलेनान्तोदात्तमेवेष्यत इत्याहुः। पाणिधमन्योदीर्घश्च' 'क्षुदजन्तूपतापाच' इत्यपि गणे पठ्यते । पाष्णीलः । धमनीलः । क्षुद्रजन्तुः-यूकालः । मक्षिकालः । उपतापो रोगः विपादिकालः । वत्सांसाभ्याम् । कामवतीति । कामबलशब्दौ सूत्रे अशआद्यजन्ताविति भावः वत्सल इति । स्नेहवानित्यर्थः । ननु वत्सांसशब्दौ वयोविशेषे प्राण्यङ्गविशेषे च रूढौ, न कामबलयोः । तत्कथं ताभ्यां , लजन्ताभ्यां कामवान् बलवांश्चोच्यत इति चेत् । अत्राहुः-वृत्तिविषये वत्सासशब्दो महबलयोर्वर्तेते इति । अस्मिस्तु प्रकरणे
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy