________________
५७४ ] सिद्धान्तकौमुदी। [तद्धितेषु मत्वर्थीय. नेह-मेधावान् । प्रत्ययस्वरेणैव सिद्धे अन्तोदासस्वे चूडालोऽसीत्यादौ 'स्वरितो वानुदात्ते पदादी' (सू १६५६) इति स्वरितबाधनार्थश्चकारः। १६०४ सिध्मादिभ्यश्च । (५-२-६७) बज्वा स्यात् । सिध्मलः, सिध्मवान् । अन्यतरस्यांग्रहणं मतुप्समुपयार्थम् , न तु प्रत्ययविकल्पार्थम् । तेन प्रकारान्तेभ्य इनिदीपानवाचिनः प्राणिस्थवाचित्वाभावाद् न लजिति भावः । प्राण्यङ्गादेवेति । भाष्ये तथा वचनादिति भावः । ननु लचश्चित्करणं व्यर्थम् , 'चितः' इत्यन्तोदात्तत्वस्य प्रत्ययस्वरेणैव सिद्धरित्यत आह प्रत्ययस्वरेणेति । चडालोऽसीति । तत्र असीत्येतत् 'तिङतिङः' इति निहतम् । चूडालात्सो स्त्वे उत्वे तस्य सुप्त्वेनानुदात्तस्याद्गुणस्य 'एकादेश उदात्तेन-' इत्युदात्तत्वे तस्य परेण पूर्वरूपैकादेशे तस्य पदाद्यनुदात्तेन सहैकादेशत्वात् 'स्वरितो वाऽनुदात्ते' इत्यस्य प्राप्तौ तन्निवृत्त्यर्थं चित्करणमित्यर्थः । सिध्मादिभ्यश्च । लज्वा स्यादिति । मत्वर्थे इति शेषः । अन्यतरस्यामिति । पूर्वसूत्रादन्यतरस्यामित्यनुवृनं न लच्प्रत्ययविकल्पार्थकम् , किन्तु मतुप्प्रत्ययसमुच्चयार्थकमेव अन्यतरस्यामित्यस्याव्ययत्वेनानेकार्थकत्वात् । ततश्च सिध्मादिभ्यो लज् मतुप च स्यादिति लभ्यते । नचान्यतरस्यामित्यस्यात्र लच्प्रत्ययविकल्पार्थकत्वेऽपि तदभावे मतुप् सिद्ध इति वाच्यम् , लजभावे मतुबेव भवति, न तु 'अत इनिठनौ' इत्येतदर्थ समुच्चयावेधानात् । तदाह तेनेति । सिध्मादिषु ये अकारान्ताः । तेभ्य इनिठनौ नेत्यर्थः । एतत्सर्व भाष्ये स्पष्टम् । सिध्म, गडु, मणि, विजय, पांसु, हनु, पाणि इत्य दयः सिध्मादिषु मुखनासासंचारी वायुः प्राणः, तद्वानेव प्राणीति तदाशयात् । प्राण्यङ्गादेवेति । एतच्चेति करणानुवृत्त्या लभ्यते । चडालोऽसीति । असीत्यस्य "
तिङतिङः' इति निघातः । चूडालशब्दात्सोरुत्वे तस्य 'अतो रोरप्लुतात्-' इत्युकारे कृते हला स्रंसनधर्मत्वात्तत्स्थानिकोऽकारोऽनुदात्तः । सुपस्थानिकस्यापि सुप्त्वाद् 'अनुदात्तौ सुप्पितौ' इत्यनुदात्त इत्यन्ये। पूर्वेण सह श्राद्गुणे सति “एकादेश उदात्तेन-' इत्योकार उदात्तः । ततः 'एङः पदान्तादति' इति पूर्वरूपमेकादेशस्तस्य 'स्खरितो वानुदात्ते-' इत्यादिना स्वरित प्राप्ते तद्बाधनाय चकार इत्यर्थः । सिध्मादिभ्यश्च । सिध्म, गडु, मणि, विजय, निष्पाव, पांसु, हनु, पाष्र्यादयः सिध्मादयः । समुञ्चयार्थ. मिति । निपातानामनेकार्थत्वादिति भावः । न च इनिठनावप्यन्यतरस्यांग्रहणेन समुच्चौयेतामिति शङ्कयम् , तयोरप्रकृतत्वात् । मतुप्प्रत्ययस्तु समुच्चीयते । तस्य प्रकृतत्वात् । अस्ति चेह लिङ्गं 'केशाद्वः' इत्यत्रान्यतरस्यांग्रहणम् । तद्धि इनिठनोः प्राप्त्यर्य क्रियते । प्रकृतस्यान्यतरस्यांग्रहणस्य विकल्पार्यत्वे तदनुवृत्त्यैव सिद्धौ किं