SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ३८] बालमनोरमा-तस्वबोधिनीसहिता। [५७३ मतोमस्य वः स्यात् । महीवती । मुनीवती । शरादित्वाद् दीर्घः । १६०० आसन्दीवदष्ठीवश्चक्रीवत्कक्षीवद्मएवच्चर्मरावती । (८-२-१२) एते षट् संज्ञायां निपात्यन्ते । भासनशब्दस्यासन्दीभावः । मासन्दीवान्प्रामः । अन्यत्रासनवान् । अस्थिशब्दस्याठीभावः । अष्ठीवान् । अस्थिमानन्यत्र । चक्र. शब्दस्य चक्रीभावः । चक्रीवासाम राजाचक्रवानन्यत्र । कषयायाः सम्प्रसारणम् । कक्षीवानामर्षिः । कथावानन्यत्र । सवयशब्दस्य रुमरभावः । रुमरवानाम पर्वतः । लवणवानन्यत्र । चर्मणो नलोपाभावो णत्वं च । चर्मण्वती नाम नदी। चर्मवत्यन्यत्र । १६०१ उदन्वानुदधौ च । (८-२-१३) उदकस्योदभावो मतावुदधौ संज्ञायां च । उदन्वाम्समुद्र ऋषिश्च । १९०२ राजन्वान्सौराज्ये । (८-२-१४ ) राजन्वती भूः । राजवानम्यत्र । १९०३ प्राणिस्थादातो लजन्यतरस्याम् । (५-२-६६) चूडालः, चूडावान् । 'प्राणिस्थात्' किम्-शिखावान्दीपः । 'प्रातः किम्-इस्तवान् । 'प्राण्यङ्गादेव' ( वा ३१८९) रीविशेषस्य वा संज्ञा । शरादित्वादिति । 'शरादीनां च' इति दीघ इत्यर्थः आसन्दीवत् । समाहारद्वन्द्वे हस्खत्वम् । निपात्यन्त इति । आसन्दीभा वादिकमेवात्र निपात्यते, वत्वं तु संज्ञायामिति सिद्धम् । कक्ष्यायाः सम्प्रसार णमिति । निपात्यत इति शेषः । 'न सम्प्रसारणे-' इति सूत्रभाष्ये तु 'कक्ष्याया संज्ञायां मतौ सम्प्रसारणं वक्तव्यम्' इत्यारब्धम् । अतोऽत्र सूत्रे कक्षीवच्छन्दपाठः अनार्ष इत्याहुः । उदन्वानुदधौ च । उदधौ संज्ञायां चेति । वस्तुतस्तु 'उदन्वांश्च' इत्येव सूत्रयितुमुचितम् , 'संज्ञायाम्'इत्यनुवृत्त्यैव समुदेऽपि उदन्वच्छ. ब्दस्य सिद्धत्वात् । राजम्वान् सौराज्ये । सु शोभनो राजा यस्य देशस्य स सुराजा, तस्य भावः सौराज्यम् । तस्मिन्नर्थ राजन्शब्दाद् मनुपि 'मादुपधायाः-' इति वत्वं सिद्धम् । नलोपाभावो निपात्यते । प्राणिस्थात् । श्रादन्तात्प्राणिस्थवाचिनः शब्दाद् मत्वर्थे लज् वा स्यादित्यर्थः । शिखावान् दीप इति । अत्र शिखाशब्दस्य इति वत्वप्रवृत्त्याऽनुनासिकपरत्वाभावात् 'प्रत्यये भाषायां नित्यम्' इत्यनेन घकार. ढकारयोरनुनासिकाप्रवृत्तेर्गोधुग्वान् मधुलिड्वानित्यनिष्टं प्रसज्येत । मैवम् , घत्वढत्वरयोसिद्धत्वेन "झयः' इति वत्वाप्रवृत्तेः। प्राणिस्थात् । शिखावान्दीप इति । प्रत्युदाहरणदिगियं दर्शिता । शिखाशब्दस्य व्रीह्यादिपाठेन लचोऽप्रसङ्गात् 'चूडावान् वृक्षः' इति प्रत्युदाहार्यमिति हरदत्तः । न च वृक्षस्य प्राणित्वमस्तीति शङ्कयम् , १ कामं नृपाः सन्तु सहस्रशोऽन्ये राजन्वतीमाहुरनेन भुमिम् । नक्षत्रताराप्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः॥ रघु. ६-२२ ।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy