________________
५७२ ]
सिद्धान्तकौमुदी ।
[तद्धितेषु मत्वर्थीय
'गुणवचनेभ्यो मतुपो लुगिष्ट:' (वा ३१८५ ) शुक्लो गुणोऽस्यास्तीति शुक्लः पटः । कृष्णः । १८६७ मादुपधायाश्च मतोर्वोऽयवादिभ्यः । ( ६-२-६ ) मवर्णावर्णान्तान्मवर्षावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः स्यात् । किंवान् । ज्ञानवान् । विद्यावान् । लक्ष्मीवान् | यशस्वान् । भास्वान् । यत्रादेस्तु यत्रमान् । भूमिमान् । १८६८ भयः । ( ८-२-१०) कय न्नान्मतोर्मस्य वः स्यात् । अपदान्तस्वाश्च जश्त्वम् । विद्युत्वान् । १८६६ संज्ञायाम् । ( ८-२-११) वित्यर्थः । गुणवचनेभ्य इति । वार्तिकमिदम् । गुणे गुणवने च ये प्रसिद्धाः शुक्लादिशब्दाः त एव गृह्यन्ते, न तु रूपादिशब्दा अपि । तेन रूपं वस्त्रमित्यादि न भवति । अत्र यद्वक्तव्यं तदध्वरभीमांसाकौतूहले अरुणाधिकरणे पश्चितमस्माभिः । मादुपधायाश्च । मात् उपधायाश्चेति च्छेदः । मादित्यावर्तते । म् च अश्वेति समाहारद्वन्द्वात्पञ्चम्येकवचनम् । मतुप्प्रत्ययाक्षिप्तप्रातिपदिकविशेषणत्वातदन्तविधिः । मवर्णान्तादवर्णान्तात्प्रातिपदिकात्परस्य मतोः मस्य व स्यादित्येकोऽर्थः । मादित्युपधाविशेषणम् । मकारात्मिका कारात्मिका च या उपधा ततः परस्य मतोर्मस्य वः स्यादित्यन्योऽर्थः । फलितमाह मवर्णेत्यादिना । मान्तादुदाहरति — किंवानिति । किमस्यास्मिन्वास्तीति विग्रहः । एवमप्रेऽपि । अकारान्तादुदाहरतिज्ञानवानिति । श्रत्र तपरकरणाभावादाकारस्यापि ग्रहणमिति मत्वाद विद्यावानिति । मोपधादुदाहरति — लक्ष्मीवानिति । श्रदुपधादुदाहरति - यशस्वानिति । 'तसौ मत्वर्थे' इति भत्वान्न रुत्वम् । आकारोपधादुदाहरति--प्रास्वानिति । अथ विद्युत्वानित्यत्र मकाराकारान्तत्वाभावान्मका राकारोपधत्वा भागश्च मादुपधाया इति वत्वा प्राप्तावाह झयः । अपदान्तत्वादिति । 'तसे' मत्वर्थे' इति भत्वेन पदत्वबाधादिति भावः । संज्ञायाम् । श्रहीवतीत्यादि नदीविशेषस्य नगगुण इति । गुणवचनेभ्य इति । गुणे तद्वति च प्रसिद्धा रे शुक्लादयस्त एव गृश्यन्ते, न तु रूपादयोऽपि । तेन रूपं वस्त्रमित्यादिप्रयोगो न भवति । मादुपधाया । मूच च मं समाहारे द्वन्द्वः । तेन मतुप्प्रत्ययाक्षिप्तं प्रातिपदिकं विशेष्यते, तदाद मवर्णावर्णान्तादिति । 'उपधायाश्च' इति वाक्यान्तरम् । उपधाभूतन्मात्परस्य तोरित्यर्थः । येन नाव्यवधान - ' न्यायेनान्त्या व्यवहितेऽपि भवतीति । एवमक्षरार्थे स्थिते फलितमाह मवर्णावर्णोपधादिति । भयः । इदम मतुबाक्षिप्तस्य प्रातिपदिकस्य विशेषणम्, तदाह यन्तादिति । विद्युत्वानिति । एतेन 'वहिमद्वान्' इति नैयायिक प्रयोगो निरस्तः । उक्तरीत्या जश्त्वस्याप्रवृत्तेः । मत्वन्तान्मतुपों निषेधाच्च । ननु गोधुमान् मधुलिरमा नित्यत्र हस्य घत्वे ढत्ते च कृते 'झयः'
T