________________
प्रकरणम् ३८] बालमनोरमा-तत्त्वबोधिनीसहिता। [५७१
१८६५ रसादिभ्यश्च । (५-२-१५) मतुप् । रसवान् । रूपवान् । अन्यमत्वर्थीयनिवृत्यर्थ वचनम् । रस, रूप, वर्ण, गन्ध, स्पर्श, शब्द, नेह, भाव। 'गुणात् (ग. सू. ११२)। 'एकाचः' (ग. स. ११३)। स्ववान् । गुणग्रहणं रसादीनां विशेषणम् । १८६६ तसो मत्वर्थे। (१-४-१६) तान्तसान्ती भसंज्ञो स्तो मत्वर्थे प्रत्यये परे । 'वसोः सम्प्रसारणम्' (सू ४३५) विदुष्मान् तदाह भूमनिन्देति । श्लोकवार्तिकमिदम् । भूमा बहुत्वम् , यथा गोमान्, यवमान् । निन्दायाम् ककुदावर्तिनी कन्या। प्रशंसायाम्-रूपवान् । नित्ययोगे-क्षीरिणो वृक्षाः। अतिशायने-उदरिणी कन्या । संसर्गे-दण्डी छत्री। वृत्तिनियामकः संसर्गविशेषो विवक्षितः, तेन पुरुषी दण्ड इति नास्ति । रसादिभ्यश्च । मतबिति। शेषपूरणमिदम् । उक्तविषय इति शेषः । पूर्वेणैव सिद्धे किमर्थमिदमित्यत आह अन्यमत्वर्थीयेति । 'अत इनिठनौ' इत्यादिनिवृत्त्यर्थमित्यर्थः । रसादीन् पठति रसरूपेत्यादि भावेत्यन्तम् । गुणादिति । एकाच इति । गणसूत्रम् । उदाहरति स्ववानिति । गुणग्रहणमिति । गुणादित्येतद् रसादीनां षण्णां विशेषण मित्यर्थः । तेन गुणवाचकानामेव एषां ग्रहणाद् जलादिवाचकानां रसादिशब्दानां द्रव्यवाचिनां च गन्धादिशब्दानाम् इह न ग्रहणमिति भावः । 'रसिको नटः, स्पर्शिकं वारि' इत्यादिप्रयोगदर्शनाद् इदं सूत्रं भाष्ये प्रत्याख्यातम् । ननु विद्च्छन्दान्मतुपि यजादिस्वादिपरकत्वाभावेन भस्वाभावाद् 'वसोः संप्रसारणम्' इति कथं संप्रसारणमित्यत आह तसौ मत्वर्थे । मत्वर्थप्रत्ययाक्षिप्तप्रातिपदिकविशेषणत्वात्तदन्तविधिमभिप्रेत्याह तान्तसान्ताविति । तकारसकारान्ता. इत्येवंपरमिति । निन्दायां ककुदावर्तिनी कन्या। प्रशंसायां रूपवान् । नित्ययोगे क्षीरिणो वृक्षाः । अतिशायने उदरिणी कन्या । संसर्गे दण्डी । संसर्गः संयोगः, तेन संयुक्तदण्ड एवोच्यते, न तु गृहावस्थितदण्डोऽपि । इह दण्डपुरुषयोः संयोगे सत्यपि दण्डी पुरुष इत्यादिवत् 'पुरुषी दण्डः' 'पुरुषवान् दण्डः' इति न प्रयुज्यते । वृत्तिनियामकस्य विलक्षणसम्बन्धस्याभावात् । संयोगे समानेऽपि प्रतीतिबलाद्वैलक्षण्यं कल्प्यत इत्याहुः । एवं च यवसंयोगमात्रेण यवमत्य आपो न भवन्ति, किं तु यवमज्जलवच्च पात्रमेवेत्याशयेन 'कथं यवमतीभिरद्भिः' इत्यापो भूमादिग्रहणं प्रायिकमित्याद्युत्तरं च संगच्छत एव । अन्यमत्व येति । कथं तर्हि 'रूपिणी कन्या' 'रसिको नटः' इति । अत्राहुः-रसादिगणे 'गुणात्' इति पठ्यते । तेन गुणवाचिभ्य एवान्यमत्व-यस्य निषेधः, रूपिणीत्यत्र तु रूपशन्देन सौन्दर्य गृह्यते । तच न गुणः । रसिक इत्यत्र तु रसशब्देन मावो गृह्यते न तु रसनाप्रायो