________________
५७० ] सिद्धान्तकौमुदी। [तद्धितेषु मत्वर्थीयइन्द्र पारमा, तस्य निङ्गम् , करणेन कर्तुरनुमानात् । इतिकरणं प्रकारार्थम्। इन्द्रेण दुर्जयमिन्द्रियम् । १८१४ तदस्यास्त्यस्मिन्निति मतुप् । (५-२-६४) गावोऽस्यास्मिन्वा सन्ति गोमान् ।
'भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ।
संसर्गेऽस्तिविवक्षायां भवन्ति मतुवादयः ॥' (वा ३१८३) इन्द्रलिङ्गमित्याद्यर्थेषु इन्द्रियमिति भवति । इन्द्रशब्दाद् यथायोगं षष्ठीतृतीयान्ताद् लिङ्गमित्याद्यर्थेषु घच् निपात्यत इति यावत् । इन्द्र आत्मेति । ‘स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमदर्शमिति । तस्मादिदन्द्रो नामेदन्द्रो ह - नाम तमिदन्द्रं सन्तामन्द्रमित्याचक्षते' इति श्रुतेरिति भावः । तस्य लिङ्गमिति । श्रात्मनोऽनुमापकमित्यर्थः । लिङ्गत्वमुपपादयति करणेनेति । चक्षुरादीन्द्रियं किञ्चित्क. धिष्ठितं भवितुमर्हति, करणात्वात् , घटकरणदण्डादिवदित्यनुमानादित्यर्थः । मम चक्षुरित्येवमिन्द्रेण दृष्टं ज्ञातमिन्द्रियम् । इन्द्रेण सृष्टमिन्द्रियम् । इन्द्रेण जुष्टं सेवितं प्रीणितं वा इन्द्रियम् । रूढशब्दोऽयं कथञ्चिद्व्युत्पादितः । इन्द्रेण दुर्जयमिन्द्रियमिति साधयितुमाह इतिकरणमिति । इतिशब्द इत्यर्थः । तदस्यास्त्यस्मिन्निति मतप । तदस्यास्तीति तदस्मिन्नस्तीति विप्रहे अस्तिसमानाधिकरणात्प्रथमान्ताद् अस्य अस्मिन्निति चार्थे मतुप् स्यादित्यर्थः । उपावितौ । इतिशब्दो विषयविशेषलाभार्थः । तत्र चिकित्स्यो निग्रहीतव्यः। सर्वेऽप्येते पक्षा प्राकरे स्थिताः । इन्द्रियमिन्द्र। इन्द्रशब्दाद्धच् । इन्द्रेण दृष्टं ज्ञातं 'मम चक्षुः, मम श्रोत्रम्' इत्यादिक्रमेण सृष्टमदृष्टद्वारा, जुष्टं प्रीणितं सेवितं वा । दत्तं यथायथं विषयेभ्यः । रूढिशब्दोऽयं यथाकथंचिद्व्युत्पादितः । तदस्यास्त्यस्मिन्निति मतुप् । तदिति प्रथमासमर्थात्प्रत्ययः । अस्तीति पुरुषवचने अविवक्षिते, कालस्तु विवक्षितः, धने गते भाविनि वा 'धनवानयम्' इति प्रतीत्यभावात् । इतिशब्दो विषयविशेषलाभार्थः । तथाहि-'भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥' अस्तिविवक्षायां ये मतुबादयो विधीयन्ते ते भूमादिषु विषयेषु भवन्तीति वार्तिकार्थः । भूमा बहुत्वम् । तच्चापेक्षिकम् । यस्य हि यावदुचितं तावदेव बहुत्वबोधकबहुशब्देनापि प्रतीयते । तथा पञ्चषाभिरपि गोभिर्देवदत्तस्य बढयो गाव इति व्यवहारः। राज्ञस्तु सहस्रगोरपि गावोऽल्पा इति व्यवहारः । गोमान् । यवमान् । यस्य खार्यादिभिः परिच्छिन्ना यवाः सन्ति स एवमुच्यते, न तु सहस्रेणापि यवैर्यवमानिति । कथं तर्हि 'यवमतीभिरद्भिद्रूपं प्रोक्षति' इति । अत्राहुः-जातिमात्रसम्बन्धस्य विवक्षितत्वाद् भूमाभावेऽप्यत्र मतुप् । भूमादिग्रहणं तु प्रायेण भूमादयः प्रतीयन्त