________________
प्रकरणम् ३८] बालमनोरमा-तत्त्वबोधिनीसहिता। [५६६ न न्याय्यः । १८६० अनुपचन्वेष्टा । (५-२-६०) अनुपदमन्वेष्टा गया. मनुपदी । साक्षाददष्टरि संज्ञायाम् । (५-२-११) साचाद्या साची । १८४२ क्षेत्रियच् परक्षेत्रे चिकित्स्यः । (५-२-६२) नेत्रियो ग्याधिः, शरीरान्तरे चिकित्स्यः, अप्रतिकार्य इत्यर्थः । १८६३ इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा । (५-२-६३) विदन्परिपन्थिनः, मा वा परिपरिणो विदन्' इति श्रुतौ उदाहरणम् । इदं सूत्रं वैदिकप्रक्रियायामेव व्याख्यातुमुचितम् । अनुपधन्वेष्टा । पदस्य पश्चादनुपदम् । पश्चादर्थे अव्ययीभावः । सप्तम्या अम्भावः । अनुपदमित्यस्माद् अन्वेष्टरि अर्थे इनिप्रत्ययो निपात्यते । साक्षाद्ष्टरि संज्ञायाम् । साक्षादित्यव्ययम्, इह शन्दस्वरूपपरं लुप्तपञ्चमीकम् । साक्षादित्यव्ययाद् द्रष्टर्यर्थे इनिः स्यादित्यर्थः । साक्षीति। यः कर्मणि स्वयं न व्याप्रियते, किन्तु कम क्रियमाणं पश्यति सोऽयं साक्षीत्युच्यते । साक्षादित्यव्ययादिनिप्रत्ययः 'अव्ययानां भमात्रे- इति टिलोपः। क्षेत्रियच् । परम् अन्यत् क्षेत्रं शरीरम् परक्षेत्रम्। चिकित्स्यः प्रतिकार्यः, 'कितेाधिप्रतीकारे' इत्युक्तेः । परक्षेत्रशब्दात् सप्तम्यन्तात् चिकित्स्य इत्यर्थे घच्, परशब्दस्य लोपश्च निपात्यते। शरीरान्तर इति । भाविनि शरीरे चिकित्स्यः, नतु वर्तमाने शरीर इस्यर्थः । फलितमाह अप्रतिकार्य इति । इन्द्रियम् । परिपन्थिभिः पार्थिवैः' इत्यादौ । अनुपचन्वेष्टा । अन्वेष्टरि इनिः प्रत्ययो निपात्यते। अनुपदमिति । पदस्य पश्चात् , पश्चादर्थेऽव्ययीभावः । अनुपदी गवामिति । पदापेक्षया षष्ठी । गोपदात्पश्चादन्वेषणं गवामेव । तेन हिरण्यादावन्वेष्ये न भवतीति हरदत्तः । साक्षाद्दष्टरि । द्रष्टर्यर्थे इनिः स्यात् । साक्षाच्छब्दोऽव्ययम् , तेन 'प्रकृतिवदनुकरणम्' इत्यतिदेशादिह सूत्रे पञ्चम्या लुक् । 'उदः स्थास्तम्भो-', 'वाचालम्बना- इत्यादौ तु 'प्रकृतिवत्-' इत्यतिदेशस्य वैकल्पिकत्वेनाव्ययत्वाभावात् । पञ्चम्या लुङ् न भवतीति बोध्यम् । साक्षीति । 'अव्यानां भमात्रे-' इति टिलोपः। यद्यपि साक्षाद्दष्टारत्रयो भवन्ति दाता ग्रहीता उपद्रष्टा च, तथापीह संज्ञाग्रहणात् साक्षिशब्देनोपद्रष्टवोच्यत इत्याहुः । क्षेत्रियच् । 'परक्षेत्रशब्दात्सप्तम्यन्ताद्धच् परशन्दस्य लोपश्च निगल्यते' इति मनोरमा। अन्ये तु 'परक्षेत्र चिकित्स्यः' इत्यर्थे 'क्षेत्रियच्' इति निपात्यते । वाक्यार्थे पदवचनं श्रोत्रियवदित्यप्याहुः । एवमन्यत्राप्यूह्यम् । क्षेत्रियो व्याधिरिति । किंच क्षत्रियं विषम् , यत्परशरीरे संक्रमय्य चिकित्स्यते । अपि च क्षेत्रियाणि तृणानि, यानि सस्यार्थक्षेत्रे जातानि चिकित्स्यानि विनाशयितव्यानि । किं च क्षेत्रियः पारदारिकः, परदाराः परक्षेत्रम् ।