SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ ५७६] . सिद्धान्तकौमुदी। [तद्धितेषु मत्वर्थीय१९०७ लोमादिपामादिपिच्छादिभ्यः शनेलचः । (५-२-१००) खोमादिभ्यः श:-लोमशः, लोमवान् । रोमशः, रोमवान् । पामादिभ्यो न:पामनः । 'मजाकल्याणे' (ग स् ११८)। अङ्गना । 'लचम्या भव' ( ग सू१२१) लषमणः । 'विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः' (वा ३१६४) विषुणः । पिच्छादिभ्य इलच्-पिच्छिलः, पिच्छिवान् । उरसिलः, उरस्वान् । व्याख्यातमिदम् । लोमादि । श, न, इलच् एते त्रिभ्यो गणेभ्यो यथासंख्यं स्युर्मत्वर्थे । अङ्गात्कल्याण इति । पामादिगणसूत्रम् । कल्याएं सुन्दरम् , तद्विशेषणकादङ्गशब्दादू मत्वर्थे नप्रत्यय इत्यर्थः । अङ्गनेति । कल्याणानि अङ्गानि अस्या इति विग्रहः । 'लक्ष्म्या अच्च' इत्यपि पामादिगणसूत्रम् । लक्ष्मीशब्दाद् मत्वर्थे नप्रत्ययः स्यात् प्रकृतरकारोऽन्तादेशश्च । लक्ष्मण इति । लक्ष्मीरस्यास्तीति विग्रहः । नप्रत्यये प्रकृतेरकारे अन्तादेशे णत्वम् । विष्वगिति । इदमपि पामादिगणसूत्रमिति केचित् । भाष्ये तु नप्रकरणे इदं वार्तिकं पठितम् । विषु इत्यव्ययं सर्वत इत्यर्थे । विषु अञ्चतीति विष्वङ् । सर्वतो गामीत्यर्थ इति धूर्तस्वामी । विषु इति तिर्यगर्थे इति भवस्वामी । पराङ्मुख इति भट्टभास्करः । विषु अञ्च् इत्यस्माद् अकृतसन्धेर्मत्वथै नप्रत्ययः स्यात्, उत्तरपदलोपश्चेत्यर्थः । विषुण इति । विष्वङ् अस्यास्तीति लौकिकविग्रहः । विषु अञ्च् इत्यलौकिकविग्रहवाक्यम् । कृतसन्धेर्नप्रत्यये तु विष्वक्शब्दस्य उत्तरपदस्य लोपे 'लोपो व्योः' इति वलोपे 'विष्ण' सर्वत्र समुच्चीयमानोऽपि मतुविह नेष्यते । मतुबन्तेनोक्तार्थस्याप्रतीतेः । किं त्वर्थान्तरमेव तेन प्रतीयते । वत्सवती गौः । अंसवान् दुर्बल इति । लोमादि । इह 'नन्दिग्रहिपचादिभ्यः-' इति वत् लोमपामपिच्छादिभ्यः' इति सुपठम् । 'अङ्ग कल्याणे' इति गणसूत्रमथेतः पठति अङ्गादिति । शाकीपलालीददेवा ह्रखत्वं च । चानप्रत्ययः। महच्छाकं शाकी, तद्वत् शाकिनम् । महत्पलालं पलाली, तद्वत् पलालिनम् । 'दरिद्रातरालोपश्च' इत्युणादिसूत्रेण इकाराकारयोर्लोपश्चादूप्रत्ययः । दस्त्वयोगविशेषः । तद्वान् दर्दुणः । विष्वगिति । 'समर्थानाम्-' इत्यस्यापवादोऽयम् । अकृतसन्धेरकृतयणादेशस्याश्चतेर्लोपः । चकारानप्रत्यय इत्यर्थः । यदि तु कृते यणादेशे उत्तरपदलोपः स्यात् , तदा वलिलोपे सति विष्ण इति स्यात् । विषुण इति । विषु नाना अञ्चन्तीति विष्वञ्चि, तान्यस्य सन्ति विषुणः, विषुवदाख्यः कालः। तस्य हि नानागतानि दिनानि सन्ति । दिनान्तराणां न्यूनाधिकभावस्य तन्मूलत्वात् । अयं भावः-विषुवति दिनानां समताया जातायामप्रे न्यूनान्यधिकानि च दिनानि भवेयुरिति नानागतदिनवत्त्वं यद्यपि विषुवति नास्ति तथापि नानागतदिनमूलभूत
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy