________________
1
प्रकरणम् ३८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५७७ १६०८ प्रज्ञाश्रद्धाचभ्यो णः । ( ५-२-१०१ ) प्राज्ञो व्याकरणम् । प्राज्ञा । श्राद्धः । आर्चः । 'वृत्तेश्व' ( वा ३१९५ ) वार्त्तः । १६०६ तपःसहस्राभ्यां विनीनी । ( ५-२-१०२ ) विनीन्योरिकारो नकारपरित्राणार्थः । तपस्वी सहस्री । असन्तत्वाददन्तत्वाच्च सिद्धे पुनर्वचनमणा बाधो मा भूदिति । सहस्रान्तु इति स्यादिति भावः । समर्थानामित्यस्यापवादोऽयम् । प्रज्ञाश्रद्धाचभ्यो णः । प्रज्ञा, श्रद्धा, अर्चा एभ्यो मत्वर्थे णप्रत्ययः स्यादित्यर्थः । प्राज्ञो व्याकरणमिति । प्रज्ञानं प्रज्ञा । स्त्रियामित्यधिकारे प्रपूर्वकाद् ज्ञाधातोः 'प्रातश्चोपसर्गे' इति भावे अङ् । प्रज्ञा अस्यास्तीति विग्रहः । उपसर्जनभूतामपि प्रज्ञानक्रियां प्रति व्याकरणस्य कर्मत्वाद् द्वितीया । कृद्योगषष्ठी नात्र प्रवर्तते, 'कर्तृकर्मणोः कृति' इत्यत्र कृद्ग्रहणेन तद्धितयोगे तन्निषेधात् । अत्र यद्वक्तव्यं तत्कर्तृकर्मणोः कृतीत्यत्र प्रपञ्चितम् । नच प्रजानातीति प्रज्ञः । ' इगुपध-' इति कः । प्रज्ञ शब्दात् स्वार्थे णि प्राज्ञ इति सिध्यतीति शङ्कथम्, तथा सति स्त्रियां ङीप्प्रसङ्गात्, तदाह प्राज्ञेति । श्राद्ध इति । श्रद्धा अस्यास्तीति विग्रहः । श्रर्च इति । अर्चा अस्यास्तीति विग्रहः । वृत्तेश्चेति । वार्तिकमिदम् । मत्वर्थे णप्रत्यय इति शेषः । वार्त्त इति । वृत्तिरस्यास्तीति विग्रहः । तपःसहस्त्राभ्याम् । विनिश्च इनिश्चेति द्वन्द्वः । मत्वर्थे इति शेषः । यथासंख्यमन्वय: । विनिप्रत्यये इनिप्रत्यये च नकारादिकारौ उच्चारणार्थौ । ननु नकारयोः इत्संज्ञा कुतो न स्यात् । न च प्रयोजनाभावः, नित्स्वरस्यैव फलत्वादित्यत आह विनीन्योरिकारो नकारपरित्राणार्थ इति । तथा च उपदेश अन्त्यत्वाभावान्नेत्संज्ञेति भावः । यद्यपि 'अस्मायामेधा -' इत्यसन्तत्वादेव तपः शब्दाद्विसिद्धः । सहस्रशब्दात्तु 'अत इनिठनौ' इत्येवेन्सिद्धः । तथापि विशिष्य उत्तरसूत्रविहितेन अणा असन्तादन्तलक्षणयोः विनीन्योः सामान्यविहितयोः बाधो मा भूदिति विशिष्येह तपस्सहस्रशब्दाभ्यां तयोः विधानम् । सहस्रशब्दात्तु अदन्तलक्षणठनोऽपि बाधनार्थमिह इन्विधानम् । एतत्समाधानं क्वचिन्मूलपुस्तदिनानां सत्त्वात्तथोच्यत इति । तथा नानागमनत्त्वान्मृत्युर्वायुरव्यवस्थितचित्तश्च विषुणशब्देनोच्यते । प्रज्ञाश्रद्धा । प्राज्ञो व्याकरणमिति । गुणभूतया क्रियया कर्मत्वेन सम्बन्धः । कृद्ग्रहणात्तद्धितप्रयोगे षष्ठी न कृतपूर्वीकटमितिवत् । ननु प्रकर्षेण जानातीति प्रज्ञः । स एव प्रज्ञावान् । तथा च प्रज्ञ एव प्राज्ञ इत्यणि कृते सिद्धमिष्टं किमत्र प्रज्ञाग्रहणेनेत्याशङ्कां निराकुर्वन्नाह प्राज्ञेति । स्त्रियां टाप् । 'प्रज्ञादिभ्यश्च’इत्यणि तु ङीप् स्यादिति भावः । वृत्तेश्चेति । वार्तिकमिदम् । काशिकाकृता तु वृत्तिशब्दः सूत्रे प्रक्षिप्तः । विच्छिन्नस्य प्रतिविधानं वृत्तिः । तपस्वी । सहस्रीति ।