________________
५७८ ] सिद्धान्तकौमुदी। तद्धितेषु मत्वर्थीय. ठनोऽपि बाधनार्थम् । १९१० अण् च । (५-२-१०३) योगविभाग उत्तरार्थः । तापसः । साहस्रः । 'ज्योत्स्नादिभ्य उपसंख्यानम्' ( वा ३१६७)। ज्यौरस्नः । तामिस्रः। १६११ सिकताशर्कराभ्यां च । (५-२-१०४) सैकतो घटः । शार्करः । १६१२ देशे लुबिलचौ च । (५-२-१०५) चादण्मतुप् च । सिकताः सन्त्यस्सिन्देशे सिकताः, सिकतिलः, सैकतः, सिकताकेषु दृश्यते। अण च । तपस्सहस्राभ्यां मत्वथ इति शेषः । ननु 'तपःसहस्राभ्यां विनीन्यणः' इत्येकमेव सूत्रमस्तु । नच तपःसहस्राभ्यां विनीयोर्यथासंख्यार्थ पृथक्सूत्रकरणम् , अन्यथा त्रयोऽपि प्रत्यया द्वाभ्यां स्युरिति वाच्यम् , 'तपःसहस्राभ्यामण्विनीनी' इति सूत्रकरणे भिन्नविभक्त्युच्चारणादेव अण उभयसम्बन्धस्य विनीन्योर्यथासंख्यत्वस्य च सिद्धेरित्यत आह योगविभाग उत्तरार्थ इति । उत्तरसूत्रे अण एवानुवृत्त्यर्थ इत्यर्थः । ज्योत्स्न इति । शुक्लपक्ष इति शेषः । ज्योत्स्ना चन्द्रिका, सा अस्यास्तीति विग्रहः। तामिस्त्र इति । कृष्णपक्ष इति शेषः । तमिस्राः तमोयुक्ता रात्रयः, ता अस्य सन्तीति विग्रहः । ज्योत्स्रादित्वादण । सिकताशर्कराभ्यां च । मत्वर्थे अणिति शेषः । सैकतो घट इति । सिकता अस्य सन्तीति विग्रहः । देशे लुपो वक्ष्यमाणत्वाद् घट इति विशेष्यम् । 'अप्सुमनःसमासिकतावर्षाणां बहुत्वं च' इति लिङ्गानुशासनसूत्रात् सिकताशब्दो नित्यं बहुवचनान्तः । देशे लुबिलचौ च । पूर्वसूत्रविहितस्याणो लुप् इलच स्यादित्यर्थः । चादणिति । संनिहितत्वादिति भावः। तर्हि अपवादेन मुक्ते उत्सर्गस्याप्रवृत्तेर्मतुब् नेव स्यादित्यत आह मतुप्चति । समुच्चयार्थकान्यतरस्यांग्रहणानुवृत्तेरिति भावः । सिकता इति । सिकताशब्दात् नित्यं बहुवचनान्तादणो लुपि असन्तत्वाददन्तत्वाच्च सिद्धे पुनर्वचनमणा बाधा माभूदिति । सहस्रात्तु ठनोऽपि बाधनार्थम् । एतच्च समाधानं मूलपुस्तकेष्वपि क्वचिद् दृश्यते । उत्तरार्थ इति । विनीन्योर्यथासंख्यप्रवृत्त्यर्थश्चेत्यपि बोध्यम् । ज्योत्स्न इति । शुक्लपक्षः । तामित्र इति । कृष्णपक्षः नरकविशेषश्च । तमःसमूहस्तमिस्रम् । 'ज्योत्स्नातमिस्रा-' इति नितनान्मत्वर्थीयो रः । तत्र ह्यवयवभूतानि तमांसि विद्यन्ते । तदस्मिन्नस्तीति विग्रहे रान्तादण् । स्त्रियां तामिस्री । 'तमिस्रा तामसी रात्रिज्योत्स्त्री चन्द्रिकयान्विता' इत्यमरोक्तौ तु तमिस्रेत्येतद्रान्तं न त्वणन्तमिति न विरोधः । एवं च तमिस्रा रात्रयः अस्मिन् सन्ति तामिस्रः पक्ष इत्यपि व्याख्यातुं शक्यम् । सिकताशर्करा। देशविशेषस्य वक्ष्यमाणत्वादाह घट इति । मतुप चेति । अन्यतरस्यांग्रहणेन सर्वत्र मतपः समुच्चयादिति भावः । सिकता इति । लुपि युक्तवद्भावः । अत्र