________________
प्रकरणम् ३८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५७६ वान् । एवं शर्करेत्यादि । १६१३ दन्ते उन्नते उरच् । (५-२-१०६) उन्नता दन्ताः सन्त्यस्य दन्तुरः । १६१४ ऊषसुषिमुष्कमधोरः। (५-२-१०७) ऊपरः । सुषिरः । मुष्कोऽएडः, मुष्करः । मधु माधुर्यम् , मधुरः । 'रप्रकरणे खमुखकुओभ्य उपसंख्यानम्' (वा ३१९८) । खरः । मुखरः । कुओ हस्तिहनुः, कुञ्जरः । 'नगपांसुपाण्डुभ्यश्च' (वा ३१६६ )। नगरम् । पांसुरः। पाण्डुरः । पाण्डरशब्दस्त्वव्युत्पन्न एव । 'कच्छ्वा हृस्वत्वं च' (वा ३२००)। प्रातिपदिकावयवत्वात् सुपो लुकि युक्तवद्भावाद्विशेष्यस्य देशस्य एकत्वेऽपि बहुवचनमिति भावः । 'हयवरट्' इति सूत्रे 'एका च सिकता तैलदाने असमर्था' इति भाष्ये प्रयोगात् सिकताशब्द एकवचनान्तोऽप्यस्तीति लिङ्गानुशासने मूलकारो वक्ष्यति । दन्त उन्नत उरच । उन्नतविशेषणकाद्दन्तशब्दाद् मत्वर्थे उरच् स्यादित्यर्थः । उन्नत इति प्रकृतिविशेषणम् । दन्त इति सप्तमी पञ्चम्यर्थे । ऊषसुषि । ऊष, सुषि, मुष्क, मधु एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम्। सौत्रं पुंस्त्वम् । एभ्यो मत्वर्थे रप्रत्ययः स्यादित्यर्थः । ऊषर इति । ऊषः क्षारमृत्तिकाविशेषोऽस्यास्तीति विग्रहः । सुषिर इति । सुषिः बिलम् , अस्यास्तीति विग्रहः । मधुशब्दः क्षौद्रे द्रव्ये माधुर्यात्मकरसविशेषे च गुणे वर्तते । तत्र रसविशेषवाचिन एवात्र ग्रहणमित्याह मधु माधुर्यमिति। तथा भाष्यादिति भावः। अन्यथा मधुव्यवति घटेऽपि मधुरपदप्रयोगः स्यात् । खरो गर्दभः, धिष्ण्यो वा। मुखरः शब्दं कुर्वन् । कुञ्जरो हस्ती। रूढशब्दा एते । नगपांस्विति । वार्तिकमिदम् । नगरमिति जातिविशेषवाची। अत एव नगरीति ङीष् । पांसुर इति। पांसुः अस्यास्तीति विग्रहः । पाण्डुर इति । पाण्डुः शुक्लवर्णः, सः अस्यास्तीति विग्रहः । कथं पाण्डरशब्द इत्यत आह पाण्डरशब्द. स्त्विति । 'हरिणः पाण्डरः पाण्डुः' इत्यमरः। कच्छा इति । वार्तिकमिदम् सूत्रद्वयस्योदाहरणान्यमरः संजग्राह–'स्त्री शर्करा शर्करिलः शार्करः शर्करावति । देश एवादिमावेवमुन्नेयाः सिकतावति' इति । दन्त उन्नत । उन्नत इति किम् , दन्तवान् । ऊषसुषि । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । 'स्यादूषः क्षारमृत्तिका । 'ऊषवानूषरः' इत्यमरः । सुषिश्छिद्रम् । खर इति । महत्कण्ठविवरं खं तद्वानित्यर्थः। गर्दभे रूढोऽयम् । मुखरो वाचाल इति हरदत्तः । नगरमिति । नगा वृक्षाः पर्वताश्च । जातिशब्दोऽयम् । तथा च नगरीत्यत्र ङीष् भवति । नगशब्दोऽयमश्मादिषु पठ्यते इति 'वुञ्छण-' आदिसूत्रेणास्य सिद्धत्वादस्माद्रोऽयं न वक्तव्य इति हरदत्तः । पाण्डुर इति । पाण्डुः शुक्लो वर्णस्तद्वान् । अव्युत्पन्न एवेति । गुणमात्रे गुणिनि च वर्तते । 'हरिणः पाण्डरः पाडः' इत्यमरः । 'गुणे शुक्लादयः