________________
५८० ] सिद्धान्तकौमुदी। [तद्वितेषु मत्वर्थीयकछुरः । १६१५ युटुभ्यां मः। (५-२-१०८) घुमः । द्रुमः । १९१६ केशाद्वोऽन्यतरस्याम् । (५-२-१०६) प्रकृतेनान्यतरस्याग्रहणेन मतुपि सिद्धे पुनर्ग्रहणमिनिठनोः समावेशार्थम् । केशवः, केशी, केशिकः, केशवान् । 'मन्येभ्योऽपि दृश्यते' ( वा ३२१०)। मणिवो नागविशेषः । हिरण्यवो निधिविशेषः । 'अर्णसो लोपश्च' (वा २०५३)। अर्णवः। १९१७ गाण्ड्यज. गात्संज्ञायाम् । (५-२-११०) हस्वदीर्घयोर्यणा तन्त्रेण निर्देशः । गाण्डि. कच्छूशब्दाद्रप्रत्ययः, प्रकृतेर्हस्वश्च अन्तादेश इत्यर्थः । कच्छुरः शुनां रोगविशेषः । धुभ्यां मः। 'दिव उत्' इति कृतोत्वस्य दिवशब्दस्य गु इति निर्देशः। दिवशब्दाद् द्रुशब्दाच्च मप्रत्ययः स्यादित्यर्थः । धुमः । द्रुम इति । रूढशब्दावेतौ । केशाद्वोऽन्यतरस्याम् । मत्वर्थे इति शेषः। नन्विहान्यतरम्यांग्रहणं व्यर्थम् , समर्थानामिति वाग्रहणेनैव वाक्यस्य सिद्धत्वात् । न च महाविभाषया अपवादेन मुक्त औत्सर्गिकस्याप्रवृत्तेः 'पारेमध्ये पष्ठ्या वा' इत्यत्रोक्लत्वादिह मतुपोऽप्रवृत्त्यापत्तौ तत्प्रवृत्त्यर्थमन्यतरस्यांग्रहणमिति वाच्यम् , प्राणिस्थादिति सूत्रादन्यतरस्यांग्रहणस्य समुच्चयार्थकस्यानुवृत्त्येव तत्सिद्धेरित्यत आह प्रकृतेनेति । दृनिठनोरिति । इनिठनोरपीत्यर्थः । अन्यथा 'सिध्मादिभ्यश्च' इत्यत्रेव मनुबेव समुच्चीयेत, नत्विनिठनाविति भावः । तथा च वप्रत्यये इनिठनोर्मतुपि च चत्वारि रूपाणीत्याह केशव इत्यादि । अन्येभ्योऽपीति । वार्तिकमिदम् । केशादन्येभ्योऽपि मत्वर्थे वो दृश्यत इत्यर्थः। अर्णस इति । वार्तिकमिदम् । अर्णसो वप्रत्ययः प्रकृतेः सकारस्य लोपश्चेत्यर्थः । अर्णव इति । अर्णः जलम् । तत्प्रभूतमस्मिन्नस्तीति विग्रहः । इदं तु वार्तिकं भाष्ये न दृश्यते । गाण्ड्यजगात्संशायाम् । ह्रस्वदीर्घयोरिति । गाण्डिशब्दस्य गाण्डीशब्दस्य च कृतयणोः गाण्ड्य इति युगपन्निर्देशः। 'ख्यत्यात्परस्य' इत्यत्र खितिशब्दयोः खीतीशब्दयोश्च यथेत्यर्थः । ततश्च गाण्डिशब्दाद् गाण्डीशब्दाद् अजगशब्दाच मत्वर्थे पुंसि गुणिलिङ्गास्तु तद्वति' इति च । कच्छा इति । कच्छ स्त्वयोगविशेषः । धुभ्यां मः। धुम इति । द्यौरस्यास्ति 'दिव उत्' इत्युत्वम् । दुर्वृतः । सोऽ. स्यास्ति जनकतयेति द्रुमोऽपि वृक्ष एव । 'पलाशी द्रुदुमागमाः' इत्यमरः । इह सर्वत्र समुच्चीयमानोऽपि मतुप् रूढशब्देषु नेष्यते । तदर्थस्य मतुपा अभिधातुमशक्यत्वात् । दृश्यत इति । व इत्यनुवर्तते । अर्णव इति । अर्तेरसुन् नु च । अर्णो जलं तद्वान् । संज्ञायामिति । 'तदस्यास्ति-' इति सूत्रस्थेतिशब्दस्यैवायं प्रपश्वः । यणेति । 'ख्यत्यात्-' इतिवत्कृतयणादेशस्यानुकरणं न भवति । लक्ष्ये यणोऽ