________________
प्रकरणम् ३८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५८१
वम्, गाण्डीवमर्जुनस्य धनुः । अजगत्रं पिनाकः । १६१८ काण्डाण्डादीरनीरचौ । ( ५-२-१११ ) काण्डीरः । श्रएडीरः । १६१६ रजःकृष्यासुतिपरिषदो वलच् । ( ५-२- ११२ ) रजस्वला स्त्री | कृषीवलः । 'वले' ( सू १०४० इति दीर्घः । श्रसुतीवलः शौण्डिकः । परिषद्वलः । 'पर्षत्' इति पाठान्तरम् । पर्षद्वलम् । 'अन्येभ्योऽपि दृश्यते' (वा ३२१०) भ्रातृवलः । पुत्रवलः । शत्रुवलः । 'वले' ( सू १०४० ) इत्यत्र 'संज्ञायाम्' इत्यनुवृत्तेर्नेह दीर्घः । १६२० दन्तशिखात्संज्ञायाम् । ( ५-२-११३ ) दन्तावलो हस्ती । शिखावलः केकी । १६२१ ज्योत्स्नातमिस्राभ्टङ्गिगोर्जस्विन्नूर्जस्वल - गोमिन्मलिनमलीमसाः । ( ५-२-११४ ) मत्वर्थे निपात्यन्ते । ज्योतिष वप्रत्ययः स्यादित्यर्थः । रूढशब्दत्वादिह न मतुप्समुच्चयः । काण्डाण्डादीरन्नीरचौ । काण्ड, श्रण्ड श्राभ्याम् ईरन्, ईरच् इति प्रत्ययौ मत्वर्थे स्त इत्यर्थः । रजः कृषिः । रजस्, कृषि, आसुति, परिषद् एभ्यो मत्वर्थे वलच् स्यादित्यर्थः
सुतीवल इति । 'पुञ् अभिषवे' श्राङ्पूर्वात् स्त्रियां क्तिन् । 'वले' इति दीर्घः । अन्येभ्योऽपीति । वार्तिकमिदम् । ' रजः कृषि -' इत्यादिसूत्रोपात्तादन्येभ्योऽपि वलच् दृश्यत इत्यर्थः । भ्रातृवलः । 'ठूलोपे -' इत्यतः अण इत्यनुवृत्तेः 'वले' इति न दीर्घः । पुत्रवल इत्यादौ 'वले' इति दीर्घमाशङ्क्याह वल इत्यत्रेति । दन्तशिखात् संज्ञायाम् । समाहारद्वन्द्वात्पञ्चमी । दन्तशब्दात् शिखाशब्दाच मत्वर्थे वलच् स्यात्संज्ञायामित्यर्थः । ज्योत्स्ना । ज्योतिष इति । ज्योत्स्नावयवा ज्योतींषि, तान्यस्यां सन्तीति विग्रहे ज्योतिष्शब्दाद् नप्रत्यय उपधाभावात् । किंतु सूत्रे सांहितिकोऽयं यरिति भावः । प्रयुज्यते चोभयथा । 'अधिरोहति गाण्डिवं महेषौ’ । ‘गाण्डीवी कनकशिलानिभं भुजाभ्याम्' इति च । श्रसुतीवल इति । 'षुञ् अभिषवे' क्तिन् । सुतिरभिषवः । परिषद्बल इति । परितः सीदतीति परिषत् 'सत्सूद्विष - ' इत्यादिना क्विप्, 'सदिर प्रतेः' इति षत्वम् । पाठान्तरमिति । 'शुदृमसोऽदि:' इत्यदिप्रत्ययो बाहुलकात् पृषेरपि भवति । तथा च भाष्यम् – 'पार्षद कृतिरेषा तत्रभवताम्' 'सर्ववेदपार्षदं हीदं शास्त्रम्' इति च । भट्टिस्त्वाह – 'पर्षद्वलान्महाब्रह्मेराट नैकटिकाश्रमान्' इति । 'पर्षदेषा दशावरा' इति मनुः । भ्रातृवल इति । 'वले' इत्यत्राणग्रहणानुवृत्तेर्नेह दीर्घः । पुत्रवलादौ तु स्यात्तत्राह संज्ञायामित्यनुवृत्तेरिति । 'वनगिर्यो :-' इति सूत्रादिति भावः । ज्योत्स्ना चन्द्रप्रभा । तत्रावयवीभूतं ज्योतिरस्तीति मत्वर्थीयोपपत्तिः । एतेन तमःसमूहे तमिस्राशब्दो व्याख्यातः । निघण्टुषु तमः पर्यायस्तमिस्रशब्दः पठितः । तत्र
•