________________
५८२ ]
सिद्धान्तकौमुदी ।
[तद्धितेषु मत्वर्थीय
उपधालोपो नश्च प्रत्ययः । ज्योत्स्ना । तमस उपधाया इत्वं रश्च तमिस्रा । स्वीस्वमतन्त्रम्, तमिस्रम् । शृङ्गादिनच्, शृङ्गिणः । उर्जसो वलच् तेन बाधा माभूदिति विनिरपि, ऊर्जस्वी । ऊर्जस्वल: । 'ऊर्जोऽसुगागमः' इति वृत्तिस्तु चिन्त्या, 'ऊर्जस्वती:' इतिवद सुन्नन्तत्वेनैवोपपत्तेः । गोशब्दान्मिनिः, गोमी । मलशब्दादिनच्, मलिनः । ईमसच्च, मलीमसः । १६२२ त इनिठनौ ।
1
भूतस्य इकारस्य लोपश्च निपात्यते । सति च इकारस्य लोपे इणः परत्वाभावात् षत्वनिवृत्तौ ज्योत्स्नेति रूपम् | 'चन्द्रिका कौमुदी ज्योत्स्ना' इलमरः । तमस इति । तमः अस्यास्तीति विग्रहे तमस्शब्दाद् रक्प्रत्ययः, उपधाभूतस्य मकारादकारस्य इत्वं च निपात्यत इत्यर्थः । ' तमिस्रा तामसी रात्रिः' इत्यमरः । ननु 'तमिस्रा' इति स्त्रीलिङ्गनिर्देशात् तमिस्रं गृहमिति कथमित्यत ग्रह स्त्रीत्वमतन्त्रमिति । शृङ्गादिनजिति । निपात्यत इति शेषः । शृङ्गिण इति । शृङ्गमध्यास्तीति विग्रहः । इनचि णत्वम् । ऊर्जसो बलजिति । निपात्यत इति शेषः । ऊर्जस् इत्यसुन्नन्तं प्रातिपदिकम् । ननु 'अस्मायामेधा -' इति विनिना सिद्धेरूर्जस्विन्निति निपातनं व्यर्थमित्यत श्राह तेनेति । विशेषविहितेन वलचा अस्मायेति सामान्यविहितस्य विनो निवृत्तिर्मा भूदित्येतदर्थं विनो निपातनमित्यर्थः । ऊर्ज इति । ऊर्जशब्दाद्वलचि प्रकृतेरसुगागम इति वृत्तिग्रन्थः अनुपपन्न इत्यर्थः । कुत इत्यत आह ऊर्जस्वतीरितिवदिति । ऊर्जस्वतीरित्यत्र वलप्रत्ययाभावेन तत्सन्नियोगशिष्टस्य असुगागमस्याप्रसक्तेः तत्र ऊजस् इत्यसुन्नन्तं प्रातिपदिकमवश्यमभ्युपेयम् तेनैव ऊर्जस्विन्नूर्जस्वलयोः विनिवलज्मात्रनिपातनोपपत्तेरित्यर्थः । ईमसच्चेति । मलशब्दाद् निपात्यत इति शेषः । अत इनि. ठनौ । दन्तान्मत्वर्थे इनि ठन् एतौ स्त इत्यर्थः । समुच्चयार्थकान्यतरस्यांग्रहणानुवृत्तेर्मतुबपि भवति । 'एकाक्षरात्कृतो जातेः सप्तम्यां च न नौ स्मृतौ' इति भाष्यम् । एकाक्षरात् स्ववान् कृतः कारकवान् जातेः वृक्षवान् सप्तम्यां दण्डा अस्यां शालायां सन्ति दण्डवती । इदं प्रायिकम् । तेन कार्यो, कर्यिकः, तण्डुली समूह समूहिनोरभेदोपचार इति हरदत्तः । स्त्रीत्वमतन्त्रमिति । व्याख्यानमत्र शरणम् । ऊर्जस्विन्गोमिन्नित्यत्र नान्तत्वाभिव्यक्तये नलोपो न कृतः । त इनिठनौ । तपकरणं किम् खट्वावान् । 'एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ' । एकाक्षरात् — स्ववान् । कृतः -- कारकवान् । जातेः - व्याघ्रवान् सिंहान् । सप्तम्यां— दण्डा अस्यां सन्ति दण्डवती शाला । ' तदस्यास्ति -' इति सूत्रस्थतिकरणो विषय नियमार्थः सर्वत्रापि संबध्यत इति । क्वचित्कृतोऽपि भवति - कार्यो, कार्यिकः ।
"
,
,
"
"