________________
प्रकरणम् ३८ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ५८३
"
( ५-२- ११५ ) दण्डी, दण्डिकः । १६२३ व्रीह्यादिभ्यश्च । ( ५-२-११६) व्रीही, व्रीहिकः । न च सर्वेभ्यो व्रीह्यादिभ्य इनिठनाविष्येते, किं तर्हि - 'शिखामाला संज्ञादिभ्य इनिः, यवखलादिभ्य इक:' ( वा ३२०६ ) । अन्येभ्य उभयम् । १६२४ तुन्दादिभ्य इलच्च । ( ५-२-११७) चादिनिठनौ मतुप् च । तुन्दिलः, तुन्दी, तुन्दिकः, तुन्दवान् । उदर, पिचण्ड, यव, व्रीहि । 'स्वाङ्गाद्विवृद्धौ' (ग. सू. १२४) विवृद्ध्युपाधिकारस्वाङ्गवाचिन इलजादयः स्युः । विवृद्धौ कर्णौ यस्य स कर्णितः, कर्णी, कर्णिकः, कर्णवान् । १६२५ एकगोपूर्वानित्यम् । ( ५-२- ११८ ) एकशतमस्यास्तीति ऐकशतिकः । ऐकसहस्रिकः । गौशतिकः । गौसहस्रिकः । १६२६ शतसहस्रान्ताच्च निष्कात् । ( ५-२-११६) तण्डुलिक इत्यादि सिद्धम् इति भाष्ये स्पष्टम् । व्रीह्यादिभ्यश्च । मत्वर्थे इनिठनौ इति शेषः । शिखामालेत्यादि । वार्तिकमिदम् । शिखा, माला, संज्ञा, वीणा, वडवा, बलाका, पताका, वर्मन् शर्मन् एभ्य इनिरेव, न तु ठनित्यर्थः । यवखलेति । यवखल, नौ, कुमारी एभ्यः ठनेव, न त्विनिरित्यर्थः । श्रवशिष्टेभ्यस्तु व्रीह्यादिगणपठितेभ्य उभावित्यर्थसिद्धम् । इदं वृत्तौ स्पष्टम् । तुन्दादिभ्य इलच्च । मतुप्चेति । समुच्चयार्थकान्यतरस्यांग्रहणानुवृत्तेरिति भावः । उदरादयश्चत्वारस्तुन्दादिगणपठिताः । स्वाङ्गाद्विवृद्धाविति । गणसूत्रमिदम् । वृद्धविषयात् स्वाङ्गादिलच्, इनिठनौ मतुप् चेत्यर्थः । कर्णिल इति । वृद्धौ कण अस्येति विग्रहः । एकगोपूर्वानित्यम् । एकपूर्वाद् गोपूर्वाच्च नित्यं ठन् स्यादित्यर्थः । यद्यपि नित्यग्रहणाभावेऽपि ठञा इनिठनोर्निवृत्तिः सिध्यति, तथापि समुच्चयार्थकान्यतरस्यांग्रहणानुवृत्त्या मतुप् समुच्चीयेत । तन्निवृत्यर्थं नित्यग्रहगम् । ऐकशतिक इति । 'पूर्वकाल -' इति समासः । ' संख्यायाः संवत्सर - ' क्वचित्तु जातेरपि—तण्डुली, तण्डुलिकः । एतच्च काशिकादौ स्पष्टम् । तुन्दादिभ्य इलच्च । अन्यतरस्यामित्यनुवर्तनादाह - मतुप्चेति । अत्र 'खाङ्गाद् विवृद्धौ' इति पठ्यते । विवृद्ध्युपाधिकात्स्वाङ्गवाचिन इलजादयः स्युः । विवृद्धौ कर्णावस्य कलिः, कर्णी, कर्णिकः, कर्णवान् । एकगोपूर्वात् । ऐकशतिक इति । एकं च तच्छतं चेति 'पूर्वकाल -' इत्यादिना कर्मधारयः । षष्ठीतत्पुरुषाद्बहुव्रीहेर्द्वन्द्वाच्च न भवत्यनभि धानादिति हरदत्तादयः । अत इत्येव, नेह -- एकविंशतिरस्यास्तीति । नित्यग्रहणं मतुपो बाधनार्थम् । अन्यथा ठञा इनिठनोर्बाधे कृते ध्यन्यतरस्यांग्रहणानुवृत्त्या मतुप् स्यादेवेत्याहुः । कथम् एकद्रव्यवान् इति, श्रसाधुरेवायम् । एकेन द्रव्यवानिति वा विग्रहीतव्यम् । कथम् एकदराडी इति, 'एकदेशिनैकाधिकरणे' इति निर्देशो ज्ञापयति