________________
५८४ ] सिद्धान्तकौमुदी। तद्धितेषु मत्वर्थीय. निष्कात्परौ यौ शतसहस्रशब्दौ तदन्तात्प्रातिपदिकाट्ठञ् स्यान्मन्वर्थे । नैष्कशतिकः। नैष्कसहस्निकः । १६२७ रूपादाहतप्रशंसयोर्यप् । (५-२-१२०) आहतं रूपमस्यास्तीति रूप्यः कार्षापणः । प्रशस्तं रूपमस्यास्तीति रूप्यो गौः । 'आहत' इति किम्-रूपवान् । 'अन्येभ्योऽपि दृश्यते' वा ३२१०) । हिम्याः पर्वताः । गुण्या ब्राह्मणाः । १६२८ अस्मायामेधास्रजो विनिः । (५-२-१२१) यशस्वी, यशस्वान् । मायावी । व्रीह्यादिपाटदिनिठनौ, मायी, इत्युत्तरपदवृद्धिस्तु न, तत्र प्रतिपदोक्ततद्धितार्थसमासस्यैव ग्रहणा ।। शतसहस्र। निष्कात् पराविति । असामर्थेऽपि सौत्रत्वात् , समास इति भावः। रूपादाहत।
आहतेति भावे क्तः । पाहतविशेषणकात् प्रशंसाविशेषण काच्च रूपशब्दाद् मत्वर्थे यप् स्यादित्यर्थः । आहतं रूपमिति । आहतेन निष्पन्नं स्वरूपं यस्येति विग्रहे रूपशब्दाद् यपि रूप्यशब्द इत्यर्थः । रूप्यः कार्षापण इति । परिमाणविशिष्टः रजतसुवर्णादिमुद्रिकाविशेषयुक्तः कार्षापण इत्युच्यते। तत्स्वरूपं च स्वर्णकारकृता हनननिष्पाद्यमिति बोध्यम् । रूप्यो गौरिति । प्रशस्त पसम्पन्न इत्यर्थः । अन्येभ्योऽपीति । वार्तिकमिदम् । रूपशब्दादन्येभ्योऽपि यप् दृश्यत इत्यर्थः । हिम्याः पर्वता इति । भूम्नि यप् , बहुलं हिममेष्वस्तीति विग्रहः । गुण्या ब्राह्मणा इति । प्रशंसायां यम् । प्रशस्त गुणसम्पन्ना इत्यर्थः । अस्मायामेधास्त्रजो विनिः । असित्यनेन असन्तं विवक्षितम् । असन्त, माया, मेधा, बज़ एभ्यो विनिप्रत्ययः स्यादित्यर्थः। प्रत्यये नकारादिकार उच्चारणार्थः। यशस्वीति । 'तसौ मत्वर्थे' इति भत्वान्न रुत्वमिति भावः । यशस्वानिति । 'एकगो पूर्वात्-' इति सूत्रे नित्यग्रहणेन निवृत्तमपि समुच्चयार्थमन्यतरस्यांग्रहणमिह मराडूक लुत्या अनुवर्तते । 'तसौ मत्वर्थे' इति सूत्रे यशस्वानिति भाष्योदाहरणादिति भावः । त्रग्वीत्यत्र 'ब्रश्च-' 'इनिरपि क्वचिद्भवति' इति । रूपादाहत । आहतप्रशंसाविशिष्टेऽर्थे वर्तमानाद्रूपशब्दान्मत्वर्थे यप् स्यात् । पाहतमिति । श्राहननमाहतं त डनमित्यर्थः । ततो निष्पन्नं यत्कार्षापणादिरूपं तदपि कार्ये कारणोपचारादाहतमित्युच्यते इत्याहतरूपयोः सामानाधिकरण्यमुपपद्यते । हिम्या इति । भूम्नि यप् । पर्वता इति । हिमवान् तत्पर्यन्तवर्तिनश्च । गुण्या इति । दृशिग्रहणादिनिरपि । तथा च माघः'गुण्यगुण्य इति न व्यजीगणत्' । गुणी अगुण्य इति पदच्छेदः । अस्मायामेधा । यशस्वीति । 'तसौ मत्वर्थे' इति भत्वाद्रुत्वं न । यशस्वानिति । नित्यग्रहणात् पूर्वत्रासम्बद्धमप्यन्यतरस्यांग्रहणं मतुप्समुच्चयार्थमिह संबध्यत एव । 'तसौ मत्वर्थे' इति सूत्रे यशस्खानिति भाष्योदाहरणादिति भावः । 'चोः :' इत्यनेन सिद्धे